SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० ॥ ५३ ॥ अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते । तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते ? ॥ ३८६ ॥ | घटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः । प्राप्तेरर्थक्रियायोगात् स्मृतेः कौतुकभावतः ॥ ३८७ ॥ ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् । प्रवृत्त्यादि ततो न स्यात्, प्रसिद्धं लोकशास्त्रयोः ॥३८८॥ तदन्यग्रहणे चास्य, प्रद्वेषोऽर्थेऽनिबन्धनः । ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥ ३८९ ॥ युक्त्ययोगश्च योऽर्थस्य, गीयते जातिवादतः । ग्राह्यादिभावद्वारेण, ज्ञानवादेऽप्यसौ समः ॥ ३९० ॥ नैकान्तग्राह्यभावं तद्भाहकाभावतो भुवि । ग्राहकैकान्तभावं तु, ग्राह्याभावादसङ्गतम् ॥ ३९९ ॥ विरोधान्नोभयाकारमन्यथा तदसद् भवेत् । निःखभावत्वतस्तस्य, सत्तैवं युज्यते कथम् ? ॥ ३९२ ॥ | प्रकाशैकस्वभावं हि, विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत् स्वयमेव प्रकाशते ॥ ३९३ ॥ यथाऽऽस्ते शेत इत्यादौ, विना कर्म्म स एव हि । तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥३९४॥ उच्यतेऽसाम्प्रतमदः, स्वयमेव विचिन्त्यताम् । प्रमाणाभावतस्तत्र, यद्येतदुपपद्यते ॥ ३९५ ॥ | एवं न यत्तदात्मानमपि हन्त ! प्रकाशयेत् । अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ॥ ३९६ ॥ विज्ञानवादनिरासः ॥ ५३ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy