________________
है विज्ञानमात्रवादोऽपि, न सम्यगुपपद्यते । मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते ॥ ३७५ ॥
न प्रत्यक्ष यतो भावालम्बनं न तदिष्यते । नानुमानं तथाभूततल्लिङ्गानुपलब्धितः ॥ ३७६ ॥ उपलब्धिलक्षणप्राप्तोऽर्थो यन्नोपलभ्यते । ततश्चानुपलब्ध्यैव, तदभावोऽवसीयते ॥ ३७७ ॥ | उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः । एषां च तत्वभावत्वे, तस्यासिद्धिः कथं भवेत् ? ॥ ३७८ ॥ सहार्थेन तज्जननखभावानीति चेन्ननु । जनयत्येव सत्येवमन्यथाऽतत्वभावता ॥ ३७९ ॥
योग्यतामधिकृत्याथ, तत्स्वभावत्वकल्पना । हन्तैवमपि सिद्धो वः, कदाचिदुपलब्धितः ॥ ३८०॥ है अन्यथा योग्यता तेषां, कथं युक्त्योपपद्यते ?।न हि लोकेऽश्वमाषादेः, सिद्धा पक्तूयादियोग्यता ॥३८॥ पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते ॥ ३८२ ॥ अतद्रहणभावैश्च, यदि नाम न गृह्यते । तत एतावताऽसत्त्वं, न तस्यातिप्रसङ्गतः ॥ ३८३ ॥ | विज्ञानं यत्स्वसंवेद्यं, नत्वर्थो युक्ति(त्य)योगतः । अतस्तद्वेदने तस्य, ग्रहणं नोपपद्यते ॥ ३८४ ॥ एवं चाग्रहणादेव, तदभावोऽवसीयते । अतः किमुच्यते मानमर्थाभावे न विद्यते ? ॥ ३८५॥