SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० ॥ ५२ ॥ कथमेतदप्येवम् ? इत्याह- 'एककाले' त्यादि, एककालग्रहे त्विन्द्रियमनोविज्ञानाभ्यासात् तत्र 'एकस्य' इन्द्रियविज्ञानादेरप्रमाणता, कुतः ? इत्याह- गृहीतग्रहणाद्धेतोः, एवं सति मिथ्या ताथागतं वचः 'पञ्च बाह्या द्विज्ञेयाः' इत्येतत् ॥ ३६९ ॥ पराभिप्रायमाह - 'इन्द्रियेणे' त्यादिना - 'इन्द्रियेण' इतीन्द्रियज्ञानेन परिच्छिन्ने सरूपादौ विषये 'तदनन्तरं इन्द्रियपरिच्छेद्यरूपाद्यनन्तरं यद्रूपादि तज्ज्ञानसमानकालभावि 'तत' इति तत इन्द्रियपरिच्छेदात्समनन्तरात् 'तत्र' तज्ज्ञानसमानकालभाविनि रूपादौ मनोविज्ञानं प्रवर्त्तते, यथाऽऽह न्यायवादी - “स्व विषयानन्तरविषय सहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम्” ॥ ३७० ॥ एतदेव निगमयति- 'एवेत्यादिना - ' एवं च' अनन्तरोदितन्याये सति न विरोधोऽस्ति वचनस्य, कुतः ? इत्याह- 'द्विविज्ञेयत्वभावतः' इन्द्रियमनोविज्ञेयत्वायोगात् पञ्चानामपि चेत् रूपादीनां 'न्यायात्' उत्तलक्षणात्, अत्रोत्तरम् - 'एतदप्यसमञ्जसम्' अयुक्तिमत्, न्यायादेव ॥ ३७१ ॥ न्यायमेवाह - नैकोऽपीत्यादि, नैकोऽपि पञ्चानां 'यत्' यस्मादेव द्विविज्ञेयः कुतः ? इत्याह- 'एकैकेन' इन्द्रियज्ञानादिनैव वेदनात् एकैकरूपादिग्रहणात्, न केषुचिद् द्विविज्ञेयत्वमस्तीत्यर्थः, 'सामान्यापेक्षयैतच्चेत्' रूपादिसामान्यापेक्षयैतद्विविज्ञेयत्वं यदि, अत्रोत्तरं 'न' नैतदेवं, कुतः ? इत्याह- 'तत्सत्त्वप्रसङ्गतः' सामान्यसत्त्वप्रसङ्गाद्, असतीन्द्रियादिज्ञानायोगात् ॥ ३७२ ॥ दोषान्तरमाह - 'सत्वेऽपी' त्यादिना - सत्त्वेऽप्यस्य नेन्द्रियज्ञानं यथोदितं च मनोविज्ञानं च 'तगोचरं' सामान्यगोचरं मतं, स्वलक्षणविषयत्वात्, उपसंहरन्नाह - द्विविज्ञेयत्वमिति 'एवम्' उक्तेन प्रकारेण क्षणभेदे न पञ्चानां तत्त्वत इति ॥ ३७३ ॥ उक्तफलमाह - 'सर्व' मित्यादिना - सर्वमेतेन विक्षिप्तं नाशहेत्वयोगादि क्षणिकत्वप्रसाधनं तथाऽप्यूर्द्ध विशेषेण, एकैकमधिकृत्य, किञ्चित्तत्रापि वक्ष्यत इति ॥ ३७४ ॥ विज्ञानवादमधिकृत्याह बौद्धसिद्धान्तैः क्षणिकतानिरासः ॥ ५२ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy