SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ GLORIOSOGGOLSAS ताम् ॥३६॥ एतदेव स्पष्टयति-'मे मयेत्यादिना-मे मये'त्यात्मनिर्देशोऽयं वर्त्तते वक्तुः, तद्गतोक्ता वधक्रिया मया हत इति स्वयम् 'आप्तेन' बुद्धेन यत् तत् तस्मात् 'व' युष्माकं कोऽयं 'क्षणिकताऽऽग्रहः' अनित्यताऽभिनिवेशो, येना तोऽप्यप्रमाणीक्रियत इति ॥ ३६२ ॥ अत्रैवाक्षेपपरिहारावाह-सन्ताने'त्यादिना-सन्तानापेक्षयतच्चेत् "इत एकनवत" द इत्याद्युक्तं 'भगवता' बुद्धेन, अत्रोत्तरं-ननु स हेतुफलभावः यत् यस्मात्सन्तानः 'तत् तस्मान्मे इति म सङ्गतं, तद्भा-18 * वेऽपि कर्तृभोक्रोमेंदादिति ॥ ३६३ ॥ 'मम'त्यादि, ममतया हेतुपरम्परया तच्छत्त्या हत इति यदैव तस्य' बुद्धस्यार्थो वक्तुमिष्टः, अत्रोत्तरं-नास्ति अत्र-अर्थे प्रमाणं किञ्चिद्, अप्रत्यक्षा बुद्धविवक्षा यस्मादिष्टेति ॥ ३६४ ॥ तद्देशनेत्यादि, किं बुद्धविवक्षया?, बुद्धदेशना प्रमाणमत्र 'क्षणिकाः संस्कारा' इत्यादि, इह समाधिः-न, साऽभ्यार्था भविष्यति, आस्थानिवृत्त्येत्यर्थः, तत्रापि किं प्रमाणं चेत्?, यदुतास्थानिवृत्त्यर्थेति, इह समाधिः-इदं पूर्वोक्तमार्षम्-'इत एकनवत' इत्यायेव, सविषयत्वमप्येवं द्वयोरपि ॥ ३६५ ॥ किश्च-'तथे'त्यादि, तथा 'अन्यदपि' आर्ष 'यत्' यस्मात्कल्पस्थायिनी पृथिवी 'कचित् सूत्रान्तरे उक्ता 'भगवता' बुद्धेन मिथुनामन्य, अनेन तद्देशनामात्रमाह, स्वयमेव तु, "कप्पट्ठाइ पुहइ अभिक्खाया" इत्यादिवचनात् ॥३६६ ॥ 'पञ्चे'त्यादि, पञ्च बाह्यस्वरूपा रूपादय इन्द्रियमनोविज्ञानग्राह्या इत्यन्यदपि वाऽऽर्ष मेतदेव, किमित्याह-प्रमाणमवगन्तव्यं, तंत्रयुक्त्या प्रक्रान्तार्थप्रसाधकं, कथञ्चिन्नित्यत्वप्रसाधकमित्यर्थः ॥ ३६७ ॥ द कथमेतदेवमित्याह-क्षणिकत्व' इत्यादि, क्षणिकत्वे यतः 'अमीषां' रूपादीनां न द्विविज्ञेयता भवेत् , कथमित्याह-18 भिन्नकालग्रह एव 'आभ्याम्' इन्द्रियमनोविज्ञानाभ्यां स्यात् , 'तच्छब्दार्थोपपत्तितः' तद्विज्ञेयत्वशब्दार्थोपपत्तेः॥३६८॥ HARASHOGANGASCARASAASASSAAG
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy