________________
|क्षितयोहे तुफलयोः 'तत्वभावत्वकल्पनं' तत्तजननादिस्वभावत्वसमर्थनं वाङमात्रेण, 'अन्यत्रापि अनमिप्रेतहेतफलभावपक्षपिण्डघटादौ समानत्वात् , वाड्मात्राभिधानेन किमित्याह-केवलं 'ध्यान्ध्यसूचकम्' अज्ञानसूचकं तत्स्वभावत्वकल्पनं परस्येत्यभिप्रायः ॥ ३५९ ॥ अत्रैव दोषान्तरमाह-'किं चेत्यादिनाकिश्चान्यत क्षणिकत्वे व, आर्षार्थोऽपि विरुध्यते। विरोधापादनं चास्य, नाल्पस्य तमसः फलम् ॥३६०॥ इत एकनवते कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥३६॥ मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधक्रिया । खयमाप्तेन यत्तद्वः, कोऽयं क्षणिकताऽऽप्रहः? ॥ ३६२ ॥
सन्तानापेक्षयैतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न सङ्गतम् ॥ ३६३ ॥ 18 ममेति हेतुशक्त्या चेत्तस्यार्थोऽयं विवक्षितः । नात्र प्रमाणमत्यक्षा, तद्विवक्षा यतो मता ॥ ३६४ ॥
| तद्देशना प्रमाणं चेत्, न साऽन्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥३६५॥ है तथाऽन्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षुनामच्य स्वयमेव तु ॥३६६ ॥
पञ्च बाह्या द्विविज्ञेया, इत्यन्यदपि चार्षकम् । प्रमाणमवगन्तव्यं, प्रक्रान्तार्थप्रसाधकम् ॥ ३६७ ॥ क्षणिकत्वे यतोऽमीषां, न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां, तच्छब्दार्थोपपत्तितः ॥ ३६८॥