SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि ० 11 40 11 नान्यो - नार्थान्तरभूतोऽसत्त्वप्रसङ्गात् यत् - यस्मात्, 'जन्याच्च जननं तथा' तथा जन्याच्च - कार्यात् जननम् - उ - उत्पत्तिलक्षणं, नान्यदिति, अयमत्र भावार्थ:- मृद् घटजननस्वभावेति मृद एवायं स्वभावः - आत्मीया सत्ता यदुत घटजन्म, यदा च तस्या एवेयमात्मीया सत्ता तदा सैव तथाभूतेति तद्भावसंगतिः ॥ ३५५ ॥ कार्यमधिकृत्याह - 'एव' मित्यादि, 'एवम्' उक्तेन न्यायेन 'तज्जन्यखभावत्वेऽपि' मृदादिकारणजन्यस्वभावत्वेऽपि घटादिकार्यस्य 'एषा' तद्भावसङ्गतिर्भाव्या 'विचक्षणैः' न्यायज्ञैः, एतदेवाह - तदेव हि यतो 'भावः' जन्यत्वमेव यस्माद् घटादेः स्वभावतः स्वसत्तालक्षणः, स च ' इतरसमाश्रयः' मृदादिकारणसमाश्रयः, एतदुक्तं भवति - मृदो मृज्जन्यस्वभाव इति मृज्जन्या मृत्कार्या सत्ता घटस्य, क्रियत इति च कार्या, ततश्च मृदादिक्रियेति मृद्गता, तदव्यतिरिक्ता तत्क्रियेति ॥ ३५६ ॥ तस्या एव तथाभावमुपसंहरन्नाह - ' इत्येव 'मित्यादि, 'एवम्' उक्तेन प्रकारेण 'अन्वयापत्ति:' भावाविच्छेदलक्षणा शब्दार्थादेवोपजायते, तज्जननभावमित्यादिलक्षणात्, अन्यथा कल्पनं चास्य - शब्दार्थस्य तज्जननस्वभावमिति, किमुक्तं भवति । - तदनन्तरं तद्भाव इत्येवमादि, सर्वथा न्यायबाधितं यथाऽऽलोच्यते त्वर्थादि न तथा तथेति ॥ ३५७॥ एतदेव भावयति - ' तद्रूपे' त्यादिना - 'तद्रूपशक्तिशून्यं' मृदादिकारणरूपशक्तिशून्यं 'तत्कार्यं' घटादि तदनन्तरभावित्वेऽपि कार्यान्तरं यथा पटाद्यन्वयीभावो न परनीत्या तथा व्यापारोऽपि न कारणस्य कार्ये कश्चित्, निर्व्यापारत्वात्सर्वधर्माणां, तथा 'तस्यापि' कार्यस्य | नापेक्षा स्वसत्त्वप्रतिपत्तिं प्रति, 'असत्त्वत:' तुच्छत्वात् 'क्वचित्' विवक्षितकारणेऽन्यत्र वा, तथाशक्त्ययोगादिति ॥ ३५८ ॥ इहाप्येतत्सम्बद्धमेवाह- 'तथाऽपित्वित्यादिना, 'तथाऽपि तु' तद्रूपशक्त्यादिवैकल्येऽपि स्वदर्शनन्यायेन 'तयोरेव' विव अन्यादिज्ञानात् क्षणिकता निरासः ॥ ५० ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy