________________
भ्रान्तः 'अयं' अन्वयः 'इत्यपि' एवम्भूताऽपि कल्पना 'युज्यते' घटते युक्त्या, कुतः? इत्याह-'सर्वभ्रान्तिप्रसङ्गतः' तदन्यानुभवस्यापि, अविगानानुभवनाविशेषात् ॥ ३५०॥ एतदेव स्पष्टयति-'प्रदीर्घ'त्यादिना-'प्रदीर्घाध्यवसायेन सर्वथा क्षणभेदानुभवात् 'नश्वरादिविनिश्चयः' क्षणिकत्वादिपरिच्छेदस्तथाऽनुभूते, "अस्य च' प्रदीर्घाध्यवसायस्य भ्रान्ततायां तथा-अतत्परिच्छेदात्मकतायां यत्' यस्मान्नश्वरादि 'तत्' अवसितं तथेति न युक्तिमत् , भ्रान्तबोधावसितत्वात् द्विचन्द्रवत् ॥ ३५१॥ यत एवम्-'तस्मादित्यादि, यस्मादनन्तरोदितो दोषस्तस्मादवश्यम् 'एष्टव्या' स्वीकतैव्या विकल्पस्यापि 'कस्यचित्' नश्वरादिविषयस्य येन तेन प्रकारेण-तथाविधसंस्कारोत्पादादिना सर्वथा 'अभ्रान्तरूपता' स्वविषयनिश्चयरूपा साधयित्र्येवेत्यभिप्रायः ॥ ३५२ ॥ एतदभिधातुमाह-'सत्या'मित्यादि, सत्याम् 'अस्याम्' अभ्रान्ततायां स्थितोऽस्माकं तत्र 'उक्तवत्' यथोक्तं प्राक् 'न्याययोगतः' तथाऽनुभवसम्बन्धेन, कः स्थितः ? इत्याह'बोधान्वयः' बोधाविच्छेदः, उपपत्त्यन्तरम्-अदलोत्पत्त्यभावाच्च न ह्यसत्सत्संभवति, कुतः? इत्याह-'अतिप्रसङ्गतः असतः सद्भावे तद्वत्तदन्यभावापत्तेरिति ॥ ३५३ ॥ अत्रोपचयमभिषित्सुराह-'अन्यादृशेत्यादि, अन्यादृशेभ्यः पदार्थेभ्यः-अनित्यत्वादिरूपेभ्यः स्वयमन्यादृशोऽपि 'अयं नित्यत्वादिग्रहरूपः यतश्चेष्टस्ततो न 'अस्मात् अप्रत्ययिताद्विकल्पात् तत्रासन्दिग्धनिश्चयः, अनित्यत्वादी, व्यभिचारांशकाऽनिवृत्तेरिति ॥ ३५४ ॥ परिहारमूलमधिकृत्याह-तत्तदित्यादि, 'तत्तजननभावत्वे'तस्य-कारणस्य मृदादेः घटादिकार्यजनस्वभावत्वे, किमित्याह-'ध्रुवं तद्भावसङ्गतिः' निश्चितं कारणभावपरिणतिः कार्ये, कुतः? इत्याह-तस्यैव भावो नान्यो यत्' तस्यैव-कारणस्यैव भावः-स्वसत्तालक्षणः