________________
शास्त्र हारि०
अग्न्यादिज्ञानात् क्षणिकतानिरासः
॥४९॥
POSTESSASIERASSO
सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः । बोधान्वयोऽदलोत्पत्त्यभावाच्चातिप्रसङ्गतः॥ ३५३ ॥ अन्यादृशपदार्थेभ्यः, स्वयमन्यादृशोऽप्ययम् । यतश्चेष्टस्ततो नास्मात्तत्रासन्दिग्धनिश्चयः ॥ ३५४ ॥
तत्तजननभावत्वे, ध्रुवं तद्भावसङ्गतिः । तस्यैव भावो नान्यो यजन्याच्च जननं तथा ॥ ३५५॥ द एवं तजन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भावः, स चेतरसमाश्रयः ॥ ३५६ ॥ द इत्येवमन्वयापत्तिः, शब्दार्थादेव जायते । अन्यथा कल्पनं चास्य, सर्वथा न्यायबाधितम् ॥ ३५७ ॥
तद्रूपशक्तिशून्यं तत्कार्य कार्यान्तरं यथा । व्यापारोऽपि न तस्यापि, नापेक्षाऽसत्त्वतः क्वचित् ॥३५८॥ तथाऽपि तु तयोरेव, तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात् , केवलं ध्यान्ध्यसूचकम् ॥३५९॥ __ अन्यादिज्ञानमेव कारणभूतमिह लोके न धूमज्ञानतां 'यतः' यस्मात् 'व्रजति' गच्छति, केन हेतुनेत्याह-आकारभेदिन, स्वाकारात्मनोः तयोराकारभेदात, यत एवं कुतो बोधान्वयस्ततः-तथाभावरूपात तत इति ॥ ३४८॥ अत्रोत्तरमाह
-'तदाकारे'त्यादि, 'तदाकारपरित्यागात् अग्राह्याकारपरित्यागेन 'तस्य' बोधिसत्त्वस्य 'आकारान्तरस्थितिः। धूमाद्याकारेण स्थानं बोधान्वयः, सर्वथाऽसत्सद्भावविरोधात् , स च प्रदीर्घार्थकाध्यवसायप्रवर्तकः, तस्यैव तथाभवना-1 दिति ॥ ३४९॥ भ्रान्तोऽयमिति परिहरति-'स्वसंवेदनेत्यादिना-'स्वसंवेदनसिद्धत्वात् तथाऽऽलोचनानुभवेन न च
॥४९॥