SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वादे कार्यभावादेः, आदिशब्दादन्यतोऽभावादिग्रह इति, अस्याऽनिश्चयात् , अनिश्चयश्च सर्वथोभयानुपलम्भादिति ॥३४४ ॥ एतदेव स्पष्टयन्नाह-'न पूर्व'मित्यादि, न पूर्वमुत्तरं च 'इह' परदर्शने 'तदन्याग्रहणात् प्रतियोग्यग्रहणाद्धेतोः 'ध्रुवं' निश्चितं गृह्यते, अतः किमित्याह-अत इदम्-अग्न्यादे—मादि, नातो जलादेरेव, न त्वतीन्द्रियदर्शनमिति ॥ ३४५ ॥ एवं च सति किमित्याह-'विकल्पोऽपी'त्यादि, 'विकल्प:' निश्चयात्मकः, कुतः? इत्याह-'तत्संस्कारप्रसूतत्वात् अपूर्वोत्तरसंवेदनसंस्कारोपजातत्वात् , उपपत्त्यन्तरमाह-क्षणिकत्वाच' सर्वथा निरन्वयनश्वरत्वेन, तथारूपानुभूयमानतदात्मभूतान्वयाभावादित्यर्थः ॥ ३४६ ॥ उपसंहरन्नाह–'नेत्थ मित्यादि, न 'इत्थम्' उक्केन प्रकारेण बोधान्वयाभावे सति घटते 'तद्विनिश्चयः' तत्तजननादिभावनिश्चयः, माध्यस्थ्यमवलम्ब्य 'एतत् अनन्तरोदितं चिन्त्यतां स्वयमेव तु ॥ ३४७ ॥ पराभिप्रायमाह-'अग्न्यादी'त्यादिनाअग्न्यादिज्ञानमेवेह, न धूमज्ञानतां यतः । ब्रजत्याकारभेदेन, कुतो बोधान्वयस्ततः? ॥ ३४८॥ तदाकारपरित्यागात्तस्याकारान्तरस्थितिः। बोधान्वयः प्रदीधैंकाध्यवसायप्रवर्तकः ॥ ३४९ ॥ खसंवेदनसिद्धत्वात्, न च भ्रान्तोऽयमित्यपि । कल्पना युज्यते युक्त्या, सर्वभ्रान्तिप्रसङ्गतः॥३५०॥ है प्रदीर्घाध्यवसायेन, नश्वरादिविनिश्चयः । अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् ॥ ३५१ ॥ तस्मादवश्यमेष्टव्या, विकल्पस्यापि कस्यचित् । येन तेन प्रकारेण, सर्वथाऽभ्रान्तरूपता ॥ ३५२ ॥ शा. स. ९ ANG
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy