________________
न पूर्वमुत्तरं चेह, तदन्याग्रहणाद् ध्रुवम् । गृह्यतेऽत इदं नातो, न त्वतीन्द्रियदर्शनम् ॥ ३४५ ॥ विकल्पोऽपि तथा न्यायाद्, युज्यते न ह्यनीदृशः। तत्संस्कारप्रसूतत्वात् , क्षणिकत्वाच्च सर्वथा॥३४६॥ नेत्थं बोधान्वयाभावे, घटते तद्विनिश्चयः । माध्यस्थ्यमवलम्ब्यैतत् , चिन्त्यतां स्वयमेव तु ॥३४७॥ - 'समनन्तरे'त्यादि, स्यात्-समनन्तरवैकल्यं तत्र नालिकेरद्वीपवासिनि इत्येतत् 'अनुपपत्तिकम्' अयुक्तिमत् , कुतः ? इत्याह-'तुल्ययोरपि' समनन्तरयोः 'तद्भावे' धूमादिग्रहभावे हन्त ! 'कचित् अगृहीताविनाभावे नालिकेरद्वीपवासिनि समुद्रदर्शनानन्तरधूमग्रहादप्यदर्शनात्, गृहीताविनाभावस्यैव दर्शनादनलादिगतेरिति ॥ ३३६ ॥ अत्राह-न तयो रित्यादि, न 'तयो' गृहीताविनाभावनालिकेरद्वीपवासिसमनन्तरयोस्तुल्यता, कुतः ? इत्याह-एकस्य' गृहीताविनाभावसमनन्तरस्य यस्मात्कारणकारणं-दीर्घपारम्पर्येण 'ओघत' ओघेन सामान्येन 'तद्धतुविषयं गृह्यमाणधूमहेत्वग्निविषयं, नत्वेवमितरस्य तु-नालिकेरद्वीपवासिनः, तेन सदा तदग्रहणादिति ॥ ३३७॥ उत्तरमभिधातुकाम आह-'यः केवले त्यादि, 'यः' क्वचिन्नालिकेरद्वीपवासिसमनन्तरः 'केवलानलग्राहिज्ञानकारणकारणः' दैवाद् अयोगुडागाराद्यग्निज्ञानकारणः 'सोऽप्येवम्' इत्योधात्तद्धेतुविषय एव, न च 'तद्धेतोरपि' एवं निमित्तसमनन्तरहेतोरपि, (तद्) 'ज्ञानात्' नालिकेरद्वीपवासिधूमज्ञानाद् अपि, अपिशब्द उभयथाऽपि संबध्यते, 'तद्गतिः' अनलादिगतिरिति, एतदवहितैः ॥३३८॥'तज्ज्ञान'मिति, तज्ज्ञानं 'यत् यस्मात् न चैव धूमज्ञानस्य तदुत्तरकालभाविनः 'समनन्तर' उपादानहेतु
SOCIEOCHECRECROCOCOCCC