________________
NAGESANSKRI
सनप्रसङ्गात्, सङ्क्रान्तिभावाविशेषात्, स च न्यायबहिष्कृतः अतिप्रसङ्गः, असमञ्जसत्वाद्यवस्थानुपपत्तेरिति ॥ ३२८॥ अनुपन्यसनीयश्चायमित्याह-वास्ये'त्यादिना-वास्यवासकभावश्चायं भवत्कल्पितः न हेतुफलभावतः सकाशात्तत्त्वतो. |ऽन्य इति, किन्तु स एव न्यायात् , स चायुक्तो निदर्शितः पूर्वमपि ॥ ३२९॥ पराभिप्रायमाह-'तत्त'दित्यादिना-'तत्' कारणं मृदादि 'तजननखभावं' घटादिकार्यजननस्वभावं यत् यस्मात् , जन्यभाव तथा 'पर' घटाद्यपि मृदादिजन्यस्वभावं यद् अतः खभावनियमादेव हेतुफलयोनायुक्तः सः कदाचन, हेतुफलभावः ॥३३०॥ अत्रोत्तरमाह-'उभयो'रित्यादिना-'उभयोः' हेतुफलयोर्ग्रहणाभावे सति न 'तथा भावकल्पनं' तजननस्वभावादिकल्पनं 'तयोः' हेतुफल-18 योाय्यं, बीजाभावात् , न चैकेन ग्राहकेण 'द्वयोः' भिन्नकालयोग्रहणमस्ति 'व' युष्माकम् ॥ ३३१ ॥ एतदेव दर्शयति-'एक'मित्यादिना-एकमर्थ विजानाति न विज्ञानद्वयं भिन्नकालं यथा क्षणिकत्वेन विजानाति न विज्ञानमेकमर्थद्वयं भिन्नकालमेव 'तथा' क्षणिकत्वेनैव ॥३३२॥ पराभिप्रायमाह-वस्त्वि'त्यादिना-'वस्तुस्थित्या' पौर्वापर्यभावेन 'तयोः' | हेतुफलयोः 'तत्त्वे' तजननादिभावत्वे एकेनापि ग्राहकेण 'तथाग्रहात्' स्वरूपेण ग्रहणात् 'नो बाधकं' न पीडाकर, किमित्याह-न चैकेन द्वयोर्ग्रहणमस्त्यदः, एतदुक्तं, तथा ग्रहणमन्तरेण तदग्रहणप्रसङ्गादित्यभिप्रायः ॥ ३३३ ॥ एतत्प|रिजिहीर्षयाऽऽह-तथे'त्यादि, 'तथाग्रहः' तजननादिभावग्रहः 'तयोः' हेतुफलयोः 'न' नैव, किंभूतः? इत्याह|'इतरेतरग्रहणात्मकः' अन्योन्यग्रहणरूपः कदाचिदपि युक्तो, यत् अन्योन्यावधिकत्वेन, अतः कथमबाधकं न चैकेनेत्यादि पूर्वोक्तं ?, बाधकमेव ॥ ३३४ ॥ दोषान्तरमभिषित्सुराह-'तथाग्रह' इत्यादि, 'तथाग्रहे च' तजननादिभावग्रहे