________________
HOROSCARSASARAN
कुतः? इत्याह-'अभ्युपगमक्षते' प्रतिज्ञातविरोधात् ॥ ३२१॥ दोषान्तरमाह-विभिनेत्यादि, विभिन्नकार्यजननस्वभावाश्चक्षुरादयः कारणविशेषाः यदीष्यन्ते ज्ञानेऽपि भेदः स्यात्, तत्कार्यत्वात् , न चेद्भिन्नकार्यजननस्वभावा भेदो है न युज्यते रूपबुद्ध्यादेः॥ ३२२॥ प्रस्तुतपक्षमुपसंहरति-सामग्र्ये'त्यादिना-सामग्यपेक्षयाऽपि 'एवम्' उक्तन्यायात् सर्वथा नोपपद्यते 'यत्' यस्मात् हेतुहेतुमद्भाव इति, तस्मादेषाऽप्युक्तिमात्रक सामग्रीति ॥ ३२३ ॥ अभ्युपगम्य हेतुफलभावं दोषमाह-नाने'त्यादिनानानात्वाबाधनाचेह, कुतःखकृतवेदनम् ? । सत्यप्यस्मिन् मिथोऽत्यन्तं, तद्भेदादिति चिन्त्यताम् ॥३२४॥ वास्यवासकभावाचेन्नैतत्तस्याप्यसम्भवात् । असंभवः कथं न्वस्य ?, विकल्पानुपपत्तितः ॥ ३२५॥ वासकाद्वासना भिन्ना, अभिन्ना वा भवेद् ? यदि । भिन्ना स्वयं तया शून्यो, नैवान्यं वासयत्यसौ॥३२६॥ अथाभिन्ना न सक्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते॥३२७॥18 असत्यामपि संक्रान्तौ, वासयत्येव चेदसौ । अतिप्रसङ्गः स्यादेवं, स च न्यायबहिष्कृतः ॥ ३२८ ॥ वास्यवासकभावश्च, न हेतुफलभावतः । तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः ॥ ३२९ ॥ तत्तजननस्वभावं, जन्यभावं तथाऽपरम् । अतः स्वभावनियमानायुक्तः स कदाचन ॥ ३३०॥
LOGOROSHOSHISHISHISAIGHISO