________________
शास्त्र हारि० १चावोंक
अनेकस्वभावत्वं
॥४५॥
AAMSALALASA
त्यादिना-'उपादानादिभोगे(भेद)न' सभागोपादानेन, न सहकारिलक्षणेन, न चैकस्या एव सामग्र्याः 'सङ्गता' न्याय्या युक्त्या विचार्यमाणेह-सन्यायमार्गे 'तदनेकत्वकल्पना' अनेकास्ताः सामग्र्य इत्येवंरूपा ॥ ३१५ ॥ यथा न सङ्गता तथाऽभिधित्सुराह-रूप'मित्यादि, रूपं येन 'खभावेन' सामर्थ्येन 'रूपोपादानकारणं' सभागं, निमित्तकारणं ज्ञाने आत्मिकादौ वा तत्तेनान्येन वा भवेत् ? ॥ ३१६ ॥ किश्चातः? इत्याह-'यदी'त्यादि, यदि तेनैव, येन रूपेणोपादानकारणम् , अत्र दोषः-विज्ञानं बोधरूपं न युज्यते, रूपवदेव, अथान्येन, अत्रापि दोषः, बलाद्रूपमेवं सति द्विस्वभावं प्रसज्यते, अनिष्टं चैतदिति ॥ ३१७ ॥ इहैव पराभिप्रायमाशय परिहरन्नाह–'अबुद्धीत्यादि, 'अबुद्धिज
नकव्यावृत्त्या' अबुद्धिजनकेभ्यो व्यावृत्त इतिकृत्वा यदि 'बुद्धिप्रसाधकः' बुद्धिजनको रूपक्षण इष्यते, एतदाशङ्कयाह8|रूपक्षण एव प्रस्तुतः एवं तर्हि अबुद्धित्वात्कारणात्कथं रूपस्य साधकः ?, तस्याप्यबुद्धित्वादिति ॥ ३१८ ॥ पराभिप्राय-12
मनिधित्सुराह-'स ही त्यादि, 'स हि'रूपक्षणः व्यावृत्तिभेदेन उक्तलक्षणेन 'रूपादिजनक' रूपबुद्ध्यादिसाधकः ननु उच्यते 'व्यवहारार्थ उभयजन्मव्यवहारसिद्धये. "एकरूपोऽपि तत्त्वतः अनेकजनकोऽनेकस्वभावोऽपि परमार्थतः ॥ ३१९ ॥ अत्रोत्तरम्-'अगन्धेत्यादि, अगन्धजननव्यावृत्त्याऽयं रूपक्षणः कस्मान्न गन्धकृत्?, उच्यते-व्यवहारार्थमेव 'तदभावात् अगन्धजननव्यावृत्त्यभावाद् यदि (चेत्) नोच्यते, एवं सति भावः 'अन्यस्याः' अबुद्धिजनकव्यावृत्तेः प्रसज्यते, तात्त्विक एव ॥३२०॥ ततः किमित्याह-एवं 'व्यावृत्तिभेदेऽपि' अनेकजननैकस्वभावपक्षेऽपि 'तस्य' रूपादेः 'अनेकखभावता' चित्रस्वभावता 'बलादापद्यते' नियमात्मामोति, ततः किं, सा चायुक्ताऽनेकस्वभावता,
॥४५॥