________________
45
अनेकस्वभावत्वं
शास्त्र 'प्रत्येक मित्यादि, 'प्रत्येकम्' एकमेकं प्रति 'तस्य' बुद्ध्यादेः कार्यस्य तद्भावे तेभ्यः समर्थेभ्य उत्पत्तौ 'युक्ता हारि० न्याय्या हि 'उक्तखभावता' कर्मसामर्थ्यभूतिस्वभावता, किमित्याह-न हि तत्सर्वसामर्थ्य नामान्यत् किञ्चित् , प्रत्ये-15 १चार्वाक- कतैव ॥ ३११॥ एतच्च परिहृतमेवेति दर्शयति-'अत्रेत्यादिनास्तबकः है अत्र चोक्तं न चाप्येषां, तत्स्वभावत्वकल्पना । साध्वीत्यतिप्रसङ्गादेरन्यथाऽप्युक्तिसम्भवात् ॥ ३१२॥ ॥४४॥
___ अत्र च तत्प्रत्येकत्वपक्षे उक्तं यज्जायत इत्यादि, न चाप्येषां-समग्रफलानां तत्स्वभावत्वकल्पना, सर्व एव समग्रास्त-12 जननस्वभावाः फलमपि सर्व तजन्यस्वभावमेवेत्येवंरूपा 'साध्वी सती, कस्मान्न साध्वीत्याह-अतिप्रसङ्गादेर्दोषात्, समग्रान्तराण्यपि तज्जननस्वभावानीत्यतिप्रसङ्गः, आदिशब्दादेक एव तज्जननस्वभावः शेषा उपनिमन्त्रितकल्पा इत्यादि। अत्र निबन्धनमाह-अन्यथाऽपि एवमपि यथोक्तसमग्रान्तराण्यपीत्यादि 'उक्तिसम्भवात् वचनाविरोधात्, युक्तिवैकल्यं तु साधारणमित्यभिप्रायः॥ ३१२॥ मौलं विकल्पमधिकृत्य पक्षान्तरमाह-'अथेत्यादिनाहै अथान्यत्रापि सामर्थ्य, रूपादीनां प्रकल्प्यते । न तदेव तदित्येवं, नाना चैकत्र तत्कुतः? ॥ ३१३ ॥
सामग्रीभेदतो यश्च, कार्यभेदः प्रगीयते । नानाकार्यसमुत्पाद, एकस्याः सोऽपि बाध्यते ॥ ३१४ ॥ उपादानादिभोगेन, न चैकस्यास्तु सङ्गता । युक्त्या विचार्यमाणेह, तदनेकत्वकल्पना ॥ ३१५ ॥ रूपं येन स्वभावेन, रूपोपादानकारणम् । निमित्तकारणं ज्ञाने, तत्तेनान्येन वा भवेत् ? ॥ ३१६ ॥
SAGARMATICALLOOGLEOCOCAL
*****
॥४४॥