________________
लोके' त्यादि, रूपालोकादिकं कार्य स्वसन्तत्यपेक्षयाऽनेकं चोपजायते तेभ्यो- रूपादिभ्यस्तावद्भ्य एवेति तद्वैकल्यासम्भवात् 'तदेतत्' भिन्नकार्यभवनं चिन्त्यतां कथं तुल्यसामर्थ्येभ्य ? इति ॥ ३०५ ॥ दोषान्तराभिधित्सयाऽऽह - 'प्रभूतानामित्यादि, प्रभूतानां च रूपादीनां नैकत्र, बुद्ध्यादौ, 'साध्वी' न्याय्या 'सामर्थ्य कल्पना' शक्तिसमर्थना, कथमित्याह'तेषां' समर्थानां प्रभूतभावेन कारणेन 'तदेकत्वविरोधतः' कार्यैकत्वविरोधात् ॥ ३०६ ॥ एतदेव भावयन्नाह - 'ताने' - त्यादि, 'तान' समर्थान् अशेषान् 'प्रतीत्य' आश्रित्य 'इह' लोके भवत्कार्यमेकं कथं भवेत् ?, नैव, अत्रोपपत्तिः - एकस्वभावं सदेकं 'यत्' यस्मात् 'तत्' तु पुनः नैकस्वभावम्, 'अनेकभावतः' अनेकेभ्य उत्पत्तेः ॥ ३०७ ॥ किमित्येतदेवमित्याह - 'यत' इत्यादि, 'यतः' यस्मात् 'भिन्नस्वभावत्वे' नानास्वभावत्वे सति 'तेषां' रूपादीनामनेकता, ततः किमि त्याह- ' तावत्सामर्थ्यजत्वे च' एतावद्भ्यः समर्थेभ्यो जन्मनि च कुतः 'तस्य' कार्यस्य बुद्ध्यादेः 'एकरूपता' एकस्वभा वता ? ॥ ३०८ ॥ एतदेव समर्थयन्नाह - 'य' दित्यादिना - यज्जायते तत् कार्यं 'प्रतीत्य' आश्रित्य एकसामर्थ्य कारणगतं, नान्यतो हि सामर्थ्यान्तरात् तत्तदेव जायते, कुतः ? इत्याह-'तयोः' कारणसामर्थ्ययोः 'अभिन्नतापत्तेः' एकत्वप्रसङ्गात्, भेदे सति भेदस्तयोरपि तत्कार्ययोः ॥ ३०९ ॥ पराभिप्रायमाशङ्क्य परिहरति- 'न प्रतीत्ये' त्यादिना -न 'प्रतीत्य' आश्रित्य एकसामर्थ्यं जायते 'तत्र' कार्ये किञ्चन, कुतः ? इत्याह- सर्वेभ्यः समर्थेभ्यः भूतिस्वभावत्वात् 'तस्य' कार्यस्य, चेदित्याशङ्कयाह- 'न तत्' नैतदेवम् ॥ ३१० ॥ अत्रैवोपपत्तिमाह
प्रत्येकं तस्य तद्भावे, युक्ता ह्युक्तस्वभावता । न हि तत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् ॥ ३९९ ॥