________________
शास्त्र० हारि० १ चार्वाक -
स्तबकः
॥ ४३ ॥
याऽपि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जनकत्वेन बुद्ध्यादेः कल्प्यते साऽप्यनर्थिका ॥ ३०३ ॥ सर्वेषां बुद्धिजनने, यदि सामर्थ्यमिष्यते । रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते ॥ ३०४ ॥ रूपालोकादिकं कार्यमनेकं चोपजायते । तेभ्यस्तावद्भ्य एवेति, तदेतञ्चिन्त्यतां कथम् ? ॥ ३०५ ॥ प्रभूतानां च नैकत्र, साध्वी सामर्थ्य कल्पना । तेषां प्रभूतभावेन, तदेकत्वविरोधतः ॥ ३०६ ॥ तानशेषान् प्रतीत्येह, भवदेकं कथं भवेत् ? । एकस्वभावमेकं यत्, तत्तु नानेकभावतः ॥ ३०७ ॥ यतो भिन्नस्वभावत्वे, सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता ? ॥ ३०८ ॥ यज्जायते प्रतीत्यैकसामर्थ्यं नान्यतो हि तत् । तयोरभिन्नतापत्तेर्भेदे भेदस्तयोरपि ॥ ३०९ ॥ न प्रतीत्यैकसामर्थ्यं जायते तत्र किञ्चन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् ॥ ३९० ॥
'यापी' त्यादि, याsपि 'रूपादिसामग्री' रूपालोकमनस्कारचक्षुः सन्निधानरूपा 'विशिष्टप्रत्ययोद्भवा' स्वहेतुसन्नि - धिपरम्परोपजनितविशेषा जनकत्वेन 'बुद्ध्यादेः' कार्यजातस्योत्पत्त्यैव कल्प्यते साऽपि 'अनर्थिका' अभीष्टार्थविकलेत्यर्थः ॥ ३०३ ॥ एतदेव दर्शयन्नाह - 'सर्वेषा' मित्यादि, सर्वेषां बुद्धिजनने एकस्मिन्नेव यदि सामर्थ्यमिष्यते, तत्स्वभावतया रूपादीनां ततः किमित्यत आह-कार्यभेदो न युज्यते, बुद्धिव्यतिरेकेण, को वा किमाह ? इति ॥ २०४॥ अत्राह - 'रूपा -
सामग्रीपक्षखण्डनं
॥ ४३ ॥