SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शा. स. ८ 'नियोगतः' नियोगेन सा 'तत्फलं तस्यानन्तरस्य वस्तुनः कार्य 'मता' दृष्टा, तस्याः कथमुत्पत्तिः ? इत्याह- 'सैव' सत्ता भावोत्पत्तिः, उत्पत्त्युत्पत्तिमतोरभेदात् 'तदात्मिका' भावात्मिकैव, नान्येति ॥ २९७ ॥ यद्येवं कथमसत उत्पत्तिः ? इत्याह - 'अस' दित्यादि, असदुत्पत्तिरपि 'अस्य' विवक्षितकार्यस्यैव प्रागसत्त्वात् प्रकीर्त्यते, इदमेव पूर्वं नेत्यसदित्युच्यते, नासतः - तुच्छत्य 'सत्त्वयोगेन' सत्त्वव्यापारेणा सदुच्यते, कुतः ? इत्याह- कारणात् सकाशात् 'कार्यभावतः' कार्योत्पादाद्, भावाद्धि भावप्रसूतिरिति ॥ २९८ ॥ यथैव तत्प्रतिक्षिप्तं तथा लेशतो दर्शयति- 'प्रतिक्षिप्तं चेत्यादिना - प्रतिक्षिप्तं चैतत् 'तद्धेतोः' विशिष्टफलहेतोर्मृदादेः 'फलतां विना' तथाभवनमन्तरेणेति योगः 'प्रामोती' त्यापद्यते, किमित्याह-' असतः' तुच्छस्यैव भावकर्तृत्वं, कारणस्य तत्त्वतोऽकारणत्वात्, तथा 'तदवस्थान्तरं' सदवस्थान्तरं च 'स' भावः प्रामोतीति योगः ॥ २९९॥ एतदेव भावयति - 'वस्तुनः' इत्यादिना - 'वस्तुनः' मृदादेरनन्तरं 'सत्ता' घटादिकार्यरूपा तत्तथाता 'तां विना' मृदादेरेव तद्भावमन्तरेण भवेद् 'नभःपातात्' आकाशपातेन, 'असत्त्वयोगाद्वा' असत्सद्भवनेन वा, प्रकारान्तराभावादिति, एवं नियमायोगेन 'न तत्फलं' न तस्यैव कार्यमिति ॥ ३०० ॥ उपन्यस्तशेषं निराकरोति - 'अस' दित्यादिना - असदुत्पत्तिरपि 'एवम्' उक्तेन प्रकारेण न अस्यैव प्रागसत्त्वतः विवक्षितकार्यस्य, किंन्वसत्सद्भवति ?, न भवत्येव सदुत्पत्तिरिति सम्यग् विचार्यतां, सूक्ष्माभागेन ॥ ३०९ ॥ मूलोपसंहार माह - 'एतच्चे' त्यादिना - 'एतच' असत्सद्भवनमनन्तरापादितं नोक्तवद्युक्त्या सर्वथा भावावधिशून्यं युज्यते, यतस्तच्छक्त्यभावेनातिप्रसङ्गात्, नाभावो भावतां याति यदुक्तं प्राग्व्यवस्थितमिदं 'ततः' तस्मात् न्यायोपपत्तेरिति ॥ ३०२ ॥ सामग्रीपक्षमधिकृत्याह -
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy