________________
MASASHISHASSASSISISSA
अभिन्नदेशतादीनामसिद्धत्वाद् अनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥ २९४ ॥ योऽप्येकस्यान्यतो भावः, सन्ताने दृश्यतेऽन्यदा। तत एव विदेशस्थात् , सोऽपि यत्तन्न बाधकः ॥२९५॥ |
'सर्वथैवे'त्यादि, सर्वथैव तथाभाविवस्तुभावाद् ऋते न यत् कारणानन्तरं कार्य, असतः सत्ताऽयोगात्, 'दाग' झटित्येव 'नभस्तः' आकाशात् 'ततः तस्मान्न कार्यम् , एवंवादिनः कार्याभाव एवेत्यर्थः ॥ २९१॥ एतदेव स्पष्टयन्नाह |-तस्यैवे'त्यादि, तस्यैव कार्यस्य 'तत्वभावत्वकल्पनासम्पदपि तदनन्तरभवनस्वभावत्वकल्पनर्द्धिरपि 'अलम्' अत्यर्थ न युक्ता, कस्मादित्याह-युक्तिवैकल्यराहुणा' युक्तिवैकल्यक्रूरग्रहेण 'जन्मपीडनात्' उक्तवत्तदुत्पत्त्ययोगात् ॥ २९२ ॥ अतिप्रसङ्गमाह-'तदनन्तरेत्यादिना-तदनन्तरभावित्वमात्रतः' कारणानन्तरभावित्वमात्रेण तद्व्यवस्थिती' कार्यकारणभावसिद्धौ सत्यां विश्वस्य वस्तुनः 'विश्वकार्यत्वं' सर्वकार्यत्वं स्यात् , 'तभावाविशेषतः तदनन्त|रभावित्वमात्रभावाविशेषात् ॥ २९३ ॥ विशेषकारणं विक्षिपति-'अभिन्ने'त्यादिना-'अभिन्नदेशतादीनाम्' अभिन्नदेशाभिन्नजातितादीनामसिद्धत्वात् , असिद्धत्वं च क्षणिकत्वेन तद्भेदोपपत्तेः, परिणामिन्यपि समानमेतदित्याह-'अनन्वयात्' अनन्वयश्च तथाऽभ्युपगमेन, यत एवमतः सर्वेषां कार्याणामविशिष्टत्वात् सर्वकारणान्येव प्रति, 'न तन्नियमहेतुता' न विशिष्टकारणकार्यनियमहेतुतेत्यर्थः॥२९४॥ पराभिप्रायमाशङ्कय परिहरति-'योऽपी'त्यादिना-योऽपि क्वचित् 'एकस्य' धूमादेः 'अन्यतः' इतोऽग्न्यादेः 'भावः' उत्पादः सन्ताने दृश्यते 'अन्यदा' अन्यस्मिन् काले, न क्षणयोा
BOSSASS SIX