________________
शास्त्र०
हारि १ चार्वाक
स्तबकः
॥ ४१ ॥
कार्यकारणभावाभावाद्, अभावश्च कल्पितत्वादिति ॥ २८७ ॥ पराभिप्रायमाह - 'न धर्मे' त्यादिना - न धर्मः कल्पितः, कारणादि, धर्मधर्मिभावस्तु कारणं विनाशः कार्यमुत्पाद इति चेत्यादिः 'कल्पित' अवास्तवः किमिति ? - यतः पूर्वो हेतुरुच्यते इति योगः, पूर्वो वस्तुक्षणो हेतुः, स च 'निरंश:' एकस्वभावः, उत्तरः फलमुच्यते, निरंश एव, एवं हि पौर्वापर्यमात्रात् हेतुफलभावत्वमित्युक्तं भवति ॥ २८८ ॥ अत्रोत्तरमाह - 'पूर्वस्ये' त्यादिना - पूर्वस्यैव भावक्षणस्य ' तथाभावाभावे' तथा तेन फलरूपप्रकारेण भवनाभावे सति हन्तोत्तरं कुतः ?, यत्फलमुच्यते नैव तद्यत्सद्भवति, तस्यैव तु पूर्वभावक्षणस्य ' तथाभावे' तथा तेन फलरूपप्रकारेण भवनेऽसतः सत्त्वम्, असत एव कार्यस्य सत्त्वम्, अदः - एतत् न 'सत्' शोभनमित्यर्थः ॥ २८९ ॥ अनेन यद्व्युदस्तं तदाह - 'तं प्रतीत्येत्यादि, 'तं प्रतीत्य' कारणक्षणमाश्रित्य 'तदुत्पाद:' कार्योत्पाद इति तुच्छमिदं वचः, अनन्तरोदितोपपत्तेः हेत्वन्तरम् - अतिप्रसङ्गतश्चैव विश्वस्य तदनन्तरभावित्वात् एतत्संवाद्येव पूर्वाचार्य मतमुपन्यस्यन्नाह - तथा चाह महामतिः ( संमति ) कारः स्वशास्त्रे ॥ २९० ॥ किं तत् ? इत्याह
सर्वथैव तथाभाविवस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥ २९९ ॥ | तस्यैव तत्स्वभावत्वकल्पनासंपदप्यलम् । न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् ॥ २९२ ॥ तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः ॥ २९३ ॥
प्रतीत्यो
त्पादखण्डनं
॥ ४१ ॥