________________
SAROORKESTRACAKACARE
है कल्पितश्चेदयं धर्मधर्मिभावो हि भावतः। न हेतुफलभावः स्यात् , सर्वथा तदभावतः ॥ २८७ ॥
न धर्मः कल्पितो धर्मधर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स, उत्तरः फलमुच्यते ॥ २८८ ॥ पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः? । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ २८९ ॥ तं प्रतीत्य तदुत्पाद, इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव, तथा चाह महामतिः ॥ २९०॥ । अनन्तरं च तद्भावः, कारणानन्तरं कार्यभाव इति गर्भः, 'तत्त्वादेव' अनन्तरत्वादेव 'निरर्थकः' अप्रयोजनः, दासमं च हेतुफलयो' एककालं च कार्यकारणयोर्नाशोत्पादौ 'असङ्गतौ' अघटमानौ ॥ २८४ ॥ एतदेवामिधित्सुराह
'स्तस्ता वित्यादि, 'स्तः' स्यातां 'तो' नाशोत्पादौ भिन्नावभिन्नौ वा ताभ्यां-कार्यकारणाभ्यां ?, भेदेऽभ्युपगम्यमाने 'तयोः' कार्यकारणयोः यथायोगं कुतो नाशोत्पादौ ?, नैवेत्यर्थः, 'अभेदे तु' अभेदे पुनरभ्युपगम्यमाने 'तयोरेव(4) कार्यकारणयोस्तुल्यकालता, तदभिन्ननाशोत्पादाभिन्नकालत्वादिति ॥ २८५॥ यदि नामैवं ततः किमित्याह-'न हेतुफले त्यादि, न हेतुफलभावश्च 'तस्यां' तुल्यकालतायां सत्यां हि युज्यते, सव्येतरगोविषाणवत्, 'तन्निबन्धनभावस्य' कार्यकारणभावनिबन्धनत्वस्य-तद्भावभावित्वादेः 'द्वयोरपि तयोरभिन्नकालयोर्वस्तुनोः 'वियोगतः' अभावात् ॥२८६॥3 पराभिप्रायमाशय परिहरन्नाह–'कल्पितश्चेत्यादि, कल्पितश्चेत् अयम्-अपारमार्थिको धर्मधर्मिभावो, यदुत कारणविनाश इत्यादि 'भावतः' परमार्थतः, तत्रोत्तरं-न हेतुफलभावः' कार्यकारणभाव एव भवेत् , सर्वथा 'तदभावतः'
AAAAAAAGRA