________________
'च तत्कारणं कार्यभूतिकाले न विद्यते । ततो न जनकं तस्य तदा सत्त्वात्परं यथा ॥ २८३ ॥ 'असत' इत्यादि, 'असतः' तुच्छस्य सत्त्वयोगेऽभ्युपगम्यमाने ' तत्तथाशक्तियोगतः' तस्य-असतः तथा - तत्सत्त्वभवनप्रकारेण शक्तियोगात् कारणात् नासत्त्वम्, असतः शक्त्ययोगात्, 'तदभावे तु ' तथाशक्ति (अ) भावे पुनरसत् न तद्-विवक्षितं सत्त्वं, तदन्यवत् योग्यताभावाविशेषात् ॥ २७६ ॥ पराभिप्रायं चेतस्यारोप्याह - 'अस' दित्यादि, असदु त्पद्यते 'तद्धि' तदेव वस्तु विद्यते यस्य कारणं, न पुनरन्यत्, विशिष्टशक्तिमत्-विवक्षितजननस्वभावं तच्च कारणं, ततः कारणात् ' तत्सत्त्वसंस्थितिः' विशिष्टसत्त्वभावना सत इति ॥ २७७ ॥ अत्रोत्तरम् - 'अत्यन्तासती' त्यादि, 'अत्यन्तासति' सर्वथाऽविद्यमाने सर्वस्मिन् कार्यजाते कारणस्य विवक्षिते न 'युक्तितः' न्यायेन 'विशिष्टशक्तिमत्त्वं हि' विवक्षितजननस्वभावत्वमेव कल्प्यमानं विराजते, सर्वथाऽवध्यभावात् ॥ २७८ ॥ एतदेव प्रकटयति — ' तत्सत्वे' त्यादिना - 'तत्सत्वसाधकं' विवक्षितकार्यसत्त्वसाधकत्वं, तत्कारणस्य विशिष्टस्य शक्तिमत्त्वमिति पराभिप्रायः, अत्रोत्तरं 'न' नैतदेवं, 'तदेव' विवक्षितकार्यसत्त्वं 'तदा' कारणकाले न 'यत्' यस्मादिति, पर आह-अत एवेदमिच्छन्तु यत एव तत्सत्वसाधकं तत्, (अ) सतः साधकत्वानुपपत्तेः, अत्रोत्तरं न चैतस्येत्ययोगतः, नैवैतदेवं, सर्वथाऽसति तस्मिन् स्वसत्त्वसाधकं तदित्यत्र तस्येत्ययोगात् ॥ २७९ ॥ पराभिप्रायमाह - 'वस्तुस्थित्ये' त्यादिना - 'वस्तुस्थित्या' आर्थ न्यायमाश्रित्य 'तथा तत्' तत्कार्यसत्त्वसाधकं तत्-कारणं, कुतः ? इत्याह- 'यत्' यस्मात् 'तदनन्तरभावि' विवक्षितकारणानन्तरभावि 'तत्' विशिष्टमेव कार्यं सत्त्वं, 'नान्यत्' सत्त्वान्तरं यत एवं ततश्च नाम्नेह-अभिधानेनात्र - विचारे 'तथे 'ति विवक्षितजनन स्व