SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥६५॥ ********* धर्मभाषाप्रयत्नोच्छ्वासहेतवः । सुखदुःखजीवितव्यमृत्यूपग्रहदायिनः ॥ ४१५ ॥ धर्माधर्मौ नभश्चैकद्रव्याणि स्युर्जिनागमे । लोकाकाशमभिव्याप्य धर्माधर्मौ व्यवस्थितौ ॥ ४१६ ॥ प्रवृत्तेषु स्वयं गन्तुं जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्मो वारिवद्वारिचारिणाम् ॥ ४१७ ॥ पुद्गलानां च जीवानां प्रपन्नानां स्थितिं स्वयम् । अधर्मः सहकारी स्याद्यथा छायाऽध्वगामिनाम् ॥ ४१८ ॥ विश्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशकम् ॥ ४१६ ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु | भावानां परिवर्ताय मुख्यः कालः स उच्यते ।। ४२० ॥ ज्योतिःशास्त्रे स्मृतं यस्य प्रमाणं समयादिभिः । स व्यावहारिकः ख्यातः कालः सर्वप्रवेदिभिः ॥ ४२१ ॥ सत्कर्मपुद्गलाः पुण्यं प्राणिनां प्रीतिपूर्वकम् । विपरीताणवः पापं नानादुःखोदयावहम् || ४२२ || मनोवाक्कायचेष्टाभिर्यत्कर्म स्यात्स आश्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥ ४२३ ॥ सर्वाश्रवनिरोधस्य हेतुः संवर उच्यते । कर्मणां भवहेतूनां जरणेन तु निर्जरा || ४२४ ॥ कषायादिवशः प्राणी कर्मयोग्यांस्तु पुद्गलान् । आदत्ते यत्स बन्धः स्याज्जन्तोरस्य चतुर्विधः ॥ ४२५ ॥ निरोधे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्यात् शेषाणां कर्मणां क्षये ॥ ४२६ ॥ भुवनत्रयेsपि यत्सौख्यं देवादीनां निगद्यते । न तुल्यं सिद्धिसौख्यस्य तदनन्तांशतोऽपि हि ॥ ४२७ ॥ एतानि नवतत्त्वानि यः श्रद्धते शुभाशयः । तस्य सद्दर्शनं शुद्धं करस्थाश्च शिवश्रियः ॥ ४२८ ॥ ************************ तृतीय प्रस्तावः ॥६५॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy