________________
सम्यक्त्वकौमुदी
तृतीय प्रस्तावः
॥६६॥
जिनागमश्रुतेरेव समुल्लसति देहिनाम् । सम्यक्तत्त्वपरिज्ञानं पयःसेकादिवाङ्कुरः ॥ ४२६ ।। यतःक्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः। बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥१॥ क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिः पुनः ॥ २॥ बोधाम्भःश्रोतसश्चैषा सिरा तुल्या सतां मता। अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥३॥ ज्ञानचारित्रयोर्योगं सम्यग्दर्शनपूर्वकम् । न्यक्षेण मोक्षसौख्यस्य निदानं मुनयो जगुः ।। ४ ।। इति श्रुत्वा मुनेः पाश्वं जानवैराग्यरङ्गवान् । गृहभार सुते न्यस्य पुण्यसाराह्वये निजे ।। ४३०॥ फलं प्राप्य श्रियो दानै गमैर्बहुभिवृतः । सकलत्रः स कलत्रां तपस्यामृषभोऽग्रहीत् ॥ ४३१ ॥ युग्मम् ।। ज्ञाततत्त्वस्थितिः सम्यग् सम्यक्त्वारोपशालिनीम् । अङ्गीचकार भूनेता विधिना द्वादशवतीम् ॥ ४३२ ।। सम्यक्त्वाणुव्रतादीनि तथा पूजादिनिश्चयान् । अपरोऽपि पुरीलोकः प्रतिपेदे यथारुचि ॥ ४३३ ।। एतत्प्रत्यक्षतो वीक्ष्य मयाऽपि गुरुसन्निधौ । सम्यक्त्वं निश्चलं स्वामिन् ! जगृहे मुक्तिकारणम् ॥ ४३४ ॥ ऋषभश्रेष्ठिमुख्यानां प्राप्तचारित्रसम्पदाम् । शिक्षा द्राक्षोपमस्वादा स मुनीन्द्रस्तदा ददौ ॥ ४३५ ॥ संसारे सौख्यकारीणि यानि वस्तूनि देहिनाम् । दुःखरूपाणि दृश्यन्ते तानि सर्वाणि युक्तितः ॥ ४३६ ॥ यतः
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं, दास्ये स्वामिभयं जये रिपुभयं वंशे कलङ्काद्भयम् ।
XXKAKKKKKKKKKKKKXXXXXXXXX