SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव: ॥ ३॥ XXXXXXXXXX*****XXX अत्युग्रपुण्यपापानां कारिणां प्राणिनां पुनः । जायते फलमत्रवावादीदिति महाजनः ॥ ३८८॥ यतःत्रिभिर्मासैखिभिः पक्षस्त्रिभिर्व स्त्रिमिर्दिनैः । अत्युग्रपुण्यपापानां फलमत्रैव जायते ॥ १ ॥ अत्रान्तरे सुरेश्चक्र पश्चाश्चयंप्रपश्चनम् । दम्पत्योरुपरि प्रीतः सम्यग्धमक्रियागुणः ॥ ३८६ ॥ भूमानपि तदाश्चर्य श्रुत्वा सस्पृहमानसः । उवाच धर्ममाहात्म्यं कीदृगस्तीति संसदम् ॥ ३९० ॥ तस्मिन्नवसरे तत्र प्रासादे परमेशितुः । समाधिगुप्तनामागादनगारः क्षमाक्षमः ॥ ३६१ ॥ आहूतः पौरलोकानां पुण्यैः पुण्यानुबन्धिभिः । चतुर्ज्ञानधरः सम्यग्दृष्टिदृष्टिसुधासरः ॥ ३६२ ॥ युग्मम् ॥ ध्यानं मुक्त्वा महानन्दौ दम्पत्यौ मुनिपुङ्गवम् । भक्त्या प्रदक्षिणीकृत्य नेमतुदु रितच्छिदम् ॥ ३६३ ॥ धर्मलाभाशिषं प्राप्य ततस्तौ रचिताञ्जली । हृदयं प्राञ्जलीकृत्योपाविष्टौ मुदिताननौ ॥ ३६४॥ कर्णावतंसमाधाय मुनेरागमनं नृपः । तत्रागत्य जनैयुक्तो क्वन्दे विधिना सुधीः ॥ ३६५ ॥ मुनिः संसारकान्तारभ्रान्तितापभरापहाम् । साक्षाद्राक्षारसमयीं विदधे धर्मदेशनाम् ॥ ३६६ ॥ संसारापारकान्तारे भ्रमताऽभीष्टसिद्धिदः । लभ्यते भाग्ययोगेन जिनधर्मसुरद्रुमः ॥ ३६७ ॥ श्रीसर्वज्ञोदिते धर्मे दृढं यस्य मनो. भवेत् । सर्वदाऽपि सुपर्वाणः सान्निध्यं तस्य कुर्वते ॥ ३९॥ मूलं सद्दर्शनं तस्य धर्मकल्पमहीरुहः । सम्यक्श्रद्धानरूपं तज्जीवाजीवादिवस्तुषु ॥ ३६६ ॥ जीवाजीवौ तथा पुण्यपापे आश्रवसंवरौ । बन्धोऽथ निर्जरामोक्षी तत्त्वानि नव शासने ॥४०॥ KXXXXXXXXXXXXXXXXXXXXXXXXX ॥ ३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy