SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ६२ ॥ *************** उपसर्गस्ततो यावदेष नो न क्षयं व्रजेत् । कायोत्सर्गो मया कार्यस्तावत् श्रीअर्हतां पुरः || ३७५ ॥ इति संबोध्य भर्तारं कायोत्सर्गे महासती । शुभध्यानवती तस्थौ सुस्थिता जिनमन्दिरे ॥ ३७६ ॥ परमेष्ठिमहामन्त्रं स्वतन्त्रस्त्रासितैनसम् । एकाग्रहृदयः श्रेष्ठी जपति स्म जिनाग्रतः ॥ ३७७ ॥ तदनुध्यानमाहात्म्यात्सम्यग्दृष्टिसुरैस्तदा । उत्पाट्य नृपतेरग्रे मुक्तो योगी वभाण सः ॥ ३७८ ॥ बन्धुश्री प्रेरितेनैतद्राजन् ! सर्वं मया कृतम् । लोभान्धः कुरुते नैव किं किं पापमयं जनः १ ॥ ३७६ ॥ वृत्यर्थी क्षत्रियो मुक्तमार्गो लिङ्गी सुखार्थिनी । नारी वणिक् च लोभान्धः पापं कुर्वन्न चिन्तयेत् ॥ ३८० ॥ अपराधोज्झिता तेन जिनदत्ता महासती जिनधर्मविदो नैव हिंसां कस्यापि कुर्वते ॥ ३८१ ॥ क्षम्यतामपराधो मे मोहमृढतमात्मनः । ईदृशं पापकर्माहं नैव कुर्वे पुनः क्वचित् ॥ ३८२॥ भूपतिः स्माह भो लिङ्गिन् ! कुर्वाणो लिङ्गिकैतवात् । कुकर्म भोजनस्यार्थे मुधा श्वभ्र' प्रयास्यसि ॥ ३८३ ॥ गृहमेधित्रतं त्यक्त्वा पापाः पाषण्डमण्डिताः । कुर्वन्तो धर्मकर्माणि प्रायः स्युदुःखभाजनम् ॥ ३८४ ॥ निःशूकहृदयः कृत्वा पापकर्माण्यनेकशः । निवर्तते न यस्तेभ्यस्तस्य शुद्धिर्न विद्यते ॥ ३८५ ॥ भवत्कृतस्य पापस्य लोकद्वयविरोधिनः । निवृत्तावपि नो दृष्टा परं शुद्धिस्तपो विना ॥ ३८६ ॥ यतः - मित्रहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च । शुद्धिर्नोक्ता बुधैः प्रायश्चित्ताचरणमन्तरा ॥ १ ॥ इत्युक्त्वा तं दुराचारं स्वदेशान्निरकाशयत् । बन्धुश्रीसंयुतं राजा रक्षार्थ न्यायधर्मयोः ॥ ३८७ ॥ ************************** तृतीय प्रस्ताव: ॥ ६२ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy