SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 'सम्यक्त्वकौमुदी तृतीय प्रस्ताव: ॥८७|| KRKKXXXXXXXXXXXXXX****** धर्मज्ञापि कुलीनाऽपि सपत्नीभावमाश्रिता । अन्यस्य द्रुह्यति प्रायः कायें स्वल्पेऽपि वर्णिनी ॥ ३१४ ॥ अलपजिनदत्ताऽपि तयोरेवं कृताञ्जसम । देवपूजादिकार्यष भोजनावसरे तथा ॥ ३१५॥ आगन्तव्यं मया पावें भतु न्यित्र कुत्रचित् । विरक्तयाऽपि यत्कार्य पत्यौ सद्धर्मगौरवम् ॥ ३१६ ॥ भुक्ता भोगा मया पूर्वमनुभूतं वपुःसुखम् । कृतानि गृहकार्याणि गतं च चतुरं वयः ॥ ३१७ ॥ तो ममोचितः कतु धर्म एव जिनोदितः । अत्राथें देवगुर्वादेराईवास्त्ववधिर्मम ॥ ३१८॥ एवं च प्रत्यये जाते दत्ता ताभ्यां स्वनन्दिनी । ऊढा च विधिना तेन श्रेष्ठिनोत्सवभासुरम् ॥ ३१६॥ पञ्चाङ्गसुखनिर्मग्ना हेमश्रीः श्रेष्ठिना समम् । गृहादिकार्यनिश्चिन्ताऽजीगमत्कतिचित्समाः ॥३२० ॥ मनोऽनुकूलं कुर्वाणा तस्याः सद्धर्मभाविता । जिनदत्ताऽभजत्सौख्यं भवतृष्णोज्झिताशया ॥ ३२१॥ यतःसर्वसङ्गपरित्यागान्नापरं परमं सुखम् । तृष्णाप्रपञ्चतो नान्यो घोरो नरक उच्यते ॥१॥ क्रमादापन्नसत्त्वाऽभूद्धमश्रीः पुण्ययोगतः। जिजीव च गृहं सर्वमुत्सवश्रेणिभिः समम् ॥ ३२२ ॥ यथैव ववृधे गर्भस्तस्याः शस्यानुभावभृत् । उज्जजृम्भे तथैवोच्चैरानन्दः श्रेष्ठिनो हृदि ॥ ३२३ ।। प्रत्यहं प्रददौ पात्रदान सर्वार्थसाधकम् । श्रेष्ठी दीनादिजीवानां भोजनं तु सुखावहम् ॥ ३२४ ॥ पितृष्वसुः पदोभक्तिननान्दुर्वहुमाननम् । बन्दिमोक्षादिपुण्यानि सङ्घवात्सल्यमन्वहम् ॥ ३२५ ॥ पूजा जिनेन्द्रविम्बानां प्रदीपाश्च तदालये । हेमश्रिया विधीयन्ते तदा सानन्दयाऽधिकम् ॥ ३२६ ॥ युग्मम् ।। XXXXXXXXXXXXXXXXXXXXXXXXX ॥ ७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy