________________
सम्यक्त्व
कौमुदी
॥ ८५ ॥
****
***********
सम्यग्बोधिसुधास्वादसानन्दहृदयाऽधुना । विषयेभ्यो विरक्ताऽहं विज्ञातभवसंस्थितिः ॥ २६२ ॥ सांप्रतं सांप्रतं नाथ ! ममानुमतितस्तव । कस्याश्चिद्युक्तकन्यायाः कर्तुं पाणिग्रहोत्सवम् ॥ २६३ ॥ यस्याः पुत्रफलं कल्पवल्लया इवार्थितप्रदम् । प्राप्य पुण्यानि निश्चिन्तमनास्त्वं कुरुषेऽनिशम् ॥ २९४ ॥ श्रुत्वैवं वृषभोऽवादीद्दीव्यन्तततिद्युता । प्रेयसीं सरसीं कुर्वभिवोत्फुल्लसिताम्बुजाम् ॥ २६५ ॥ युज्यते यौवनारम्भे भद्र ! पाणिग्रहोत्सवः । जरद्द्भवस्य किं कण्ठे रत्नमाला विराजते ? || २६६ ॥ वदति स्म पुनः पत्नी गृहस्थस्यानिशं भवेत् । संसारभार खिन्नस्य विश्रामोऽपत्य संगमः ॥ २६७ ॥ यतः— संसारश्रान्तजन्तूनां तिस्रो विश्रामभूमयः । अपत्यं च कवित्वं च सतां संगतिरेव च ॥१॥ जगदे तेन साऽप्येवं विवेकविमलात्मना । त्वदुक्तं सर्वमप्येतज्जानेऽहं युक्तिसंगतम् ॥ २६८ ॥ वृद्धत्वे नैव शोभायै परमुद्वाहविक्रिया । योषिद्विडम्बनामूलं वध्यस्येवाङ्गभूषणम् ॥ २६६ ॥ वयोऽतीतमनुष्येषु विशेषात् शोभतेऽभितः । नानाधर्मोद्यमः सम्यक् कुकर्मोन्मूलनक्षमः ॥ ३०० ॥ विषयव्याकुलीभावो वृद्धत्वे हास्यकृन्नृणाम् । विरुद्धं सर्वशास्त्र षु विशेषाजिनशासने || ३०१ ॥ यतः - strङ्गविभूषणद्युतिरियं शोकेऽपि लोकस्थितिदरिद्र ऽपि गृहं वयः परिणतावप्यङ्गनासेवनम् ।
*************
तृतीय
प्रस्तावः
॥ ८५ ॥