________________
सम्यक्त्वकौमुदी
तृतीय प्रस्तावः
॥८३॥
IXXXXXXXXXXXXXXXXKKK)
शमसंवेगनिर्वेददयास्तिक्यैस्तु लक्षणैः । लक्ष्यतेऽन्तर्गतं सम्यग्दर्शनं पञ्चभिर्वहिः ॥ २७० ॥ स्थैर्य प्रभावनारङ्गचातुर्य चाहते मते । मण्डनानि भवन्त्यस्य तीर्थयात्रा च शक्तितः ॥ २७१ ॥ अन्यतीथिंकदेवादिवन्दनादिक्रियोज्झनात् । षड़िवधा यतना कार्या सम्यग्दृष्टिविशोधिका ॥ २७२ ॥ यतःपरतित्थोणं तद्देवयाण तग्गहियचेइयाणं च । छविहववहारं न कुणइ सा छव्विहा जयणा ॥१॥ वंदण नमसणं वा दाणाणपयाण तेसि वज्जेइ । आलावं संलावं पुव्वमणालत्तगो न कुणइ ॥२॥ आकारा अपवादा ये षोढा राजगणादयः। स्वल्पसत्त्वस्य सम्यक्त्वं तत्प्रयोगान्न खण्ड्यते ॥ २७३ ॥ यतःआगारा अववाया छव्विह कोरंति भंगरक्खडा। रायगणबलसुरक्कमगुरुनिग्गहवित्तिकंतारा॥१॥ सद्धर्ममन्दिरद्वारेत्यादिषड्भावनारसैः। भाव्यमानं च सम्यक्त्वं भवेन्मोक्षसुखप्रदम् ॥ २७४ ॥ भाविज मूलभूयं दुवारभूयं पइनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥२७५ ॥ जीवोऽयं शाश्वतः कर्ता भोक्ता च पुण्यपापयोः । कर्मक्षयेण निर्वाणं तन्मार्गोऽस्ति जिनोदितः ॥ २७६ ॥ एषु षट्स्थानकेष्वास्था सम्यग्श्रद्धानपूर्विका । सम्यक्त्वं शोधयत्येव तुषाग्निरिव काञ्चनम् ॥ २७७ ॥ यतःअत्थि जिओ तह निच्चा कत्ता भोत्ता य पुनपावाणं । अत्थि धुवं निव्वाणं तदुवाओ अस्थि छट्ठाणे॥१॥ नृभवः सफलस्तस्य कृतार्थ जीवितं तथा । येन सद्दर्शनं लेभे सप्तषष्टिपदान्वितम् ॥ २७८ ॥ चारित्राराधनो धर्मो भजते द्रव्यरूपताम् । सद्दर्शनं विना ज्ञानोपयोगेन यथा मुनिः॥ २७६ ॥
KXXXXXXXXXXXXXXXXXXXXXXXKA
८३॥