SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥८१॥ ******** ************* सत्कलानां तु सर्वासां समग्रसुखसंपदाम् । यः पुण्यसागरः प्राप प्रियमेलकतीर्थताम् ॥ २५१ ॥ राज्ञी कनकमालाऽभूद्भूतलानन्ददायिनी । तस्य चम्पकमालेव शीलसौरभ्यभारिणी ॥ २५२ ॥ तत्रैवाभूद्भुवो भतुः प्रसादसदनं सुधीः । सम्यग्दृष्टिशिरोरत्नं वृषभः श्रेष्ठिनायकः ॥२५३॥ पात्रत्यागगुणप्रीतिप्रमुखैः पञ्चभिर्गुणैः । अलंकृतः कृतित्रातग्रामणीर्योऽभवद्भुवि ॥ २५४ ॥ यतः - पात्रे त्यागी गुणे रागो भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥१॥ तस्यासीज्जिनदत्ताख्या सतीततिमतल्लिका । गेहिनी देहिनीव श्रीरनुकूला स्वभर्तरि ॥ २५५॥ यतः - अनुकूला सदा तुष्टा दक्षा साध्वो विचक्षणा । एभिरेव गुणैर्युक्ता श्रीरेव स्त्रीर्न संशयः ॥ १ ॥ सत्पक्षया तया युक्तः श्रेष्ठी सौख्यसरोवरे । चिरं लीलायितं चक्रे विवेकी राजहंसवत् ॥ २५६ ॥ चारणश्रमणः कश्चिदन्यदा दुरितापहः । समाययौ गृहे तस्या जङ्गमः पुण्यसंगमः ॥ २५७ ॥ सच्चक्रानन्दिना नानातपःस्थितिविधायिना । तेन विस्मेरतां प्रापद्भास्वता पद्मिनीव सा ॥ २५८ ॥ ननाम मथितानङ्ग ं सा मुनिं विधिपूर्वकम् । बिभ्रती भक्तिरागेण चञ्चद्रोमाञ्चकञ्चुकम् ॥ २५६ ॥ आसीनोऽसौ तया दत्ते दत्ताशीमु निरासने । तत्रादिदेश सद्धर्म वाचा साम्यसुधामुचा ॥ २६०|| अस्मिन्नसारे संसारे मराविव सुरद्रुमः । धन्यैरासाद्यते सर्व विद्धर्मोऽभीष्टसिद्धये ॥२६१॥ स सर्वदेशचारित्रभेदाभ्यां द्विविधः स्मृतः । तद्द्वारं तत्त्वश्रद्धानरूपं सम्यक्त्वमुच्यते ॥२६२॥ ************************ तृतीय प्रस्तावः ॥८१॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy