SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ||02|| ******* ************ यथा तथा विचेष्टन्ते ते मूढमतयोऽङ्गिनः । स्वाङ्ग दीपायते येषां न जैनेन्द्रवचोऽनघम् ॥ २३७ ॥ इह लोकेऽपि कस्यासीत्परलोकेऽपि कस्यचित् । फलं पुण्यस्य पापस्य कस्यचिल्लोकयोर्द्वयोः ॥ २३८ ॥ पुण्यानुबन्धि भद्रे ! स्यात्पुण्यं पापानुबन्धि च । सम्यग्ज्ञानक्रिये आधे परमज्ञानकष्टजम् ॥ २३६ ॥ पुण्यानुबन्धिपुण्येन प्राप्य सौख्यमनुत्तरम् । पुनः पुण्यपरो भूत्वा ततः श्रेयोऽधिकं श्रयेत् ॥ २४० ॥ पापानुबन्धिपुण्येन किंचित्प्राग् सुखमाश्रितः । कुर्वन् पापशतान्यत्र भवेदुःखी भवे भवे ॥ २४१ ॥ पुण्यादेव सुखं जन्तोदु:खं पापोदयात्पुनः । तद्वयापगमे सिद्धिरिति वेदो मनस्विनि ! ॥ २४२ ॥ तमुक्त्वा नास्तिकीभावं धृत्वा चास्तिकतां प्रिये ! । सर्वज्ञधर्ममाहात्म्यं मन्यस्व जगदद्भुतम् ॥ २४३ ॥ धर्मानुशास्तिमित्येष ददौ तस्या हितावहाम् । न पुनर्मानसे किश्चित्तस्थौ मिथ्यात्वमोहिते ॥ २४४ ॥ भाषिष्ट पुनः श्रेष्ठी भवतीनां मया पुरः । सद्दर्शन स्थिरीभावे हेतुः प्रादुष्कृतोऽधुना ॥ २४५॥ अथ प्रथमतः कान्ता सम्यक्त्वस्थिरतावहम् । वदत्वग्रे समग्रं मे जयश्रीकारणं निजम् ॥ २४६ ॥ एवमादेशमासाद्य सामुदितानना । उदन्तं दन्तदीधित्या शुभ्रयन्त्यब्रवीद्भुवम् ॥२४७॥ तद्यथा— अस्ति पूः पूरितानन्दा भुवो भुवनविश्रुता । अवन्ती देशमध्यस्थोज्जयिनी जयिनी दिवः || २४८ || वैरं लक्ष्मी सरस्वत्योरनादिस्थितिसंभवम् । मुष्णन्ति शास्त्रनिष्णाताः श्रीमन्तो यत्र गेहिनः || २४६ ॥ सीतिरस्कृतारातिभूपतिः सुरसुन्दरः । विश्वानन्दिस्वरूपेण रूपेण सुरसुन्दरः || २५० || ******* | तृतीय प्रस्तावः ***************** ॥८०॥ #1
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy