SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी *** तृतीय प्रस्ताव: ॥ ७६।। धर्मादेव भवेत्सौख्यमेषा भ्रान्तिर्भवादृशाम् । धर्मभाजोऽपि दृश्यन्ते दुःखिनो यत्पदे पदे ॥ २२३॥ सृजन्तोऽप्यनिशं पापं केचित् कुञ्जरगामिनः । साम्राज्यं कुर्वतेऽखण्डषट्खण्डक्षितिमण्डनम् ॥ २२४ ॥ उवाच सचिवं भूमान् श्रुत्वा कुन्दलतोदितम् । अहो ! दुरात्मता कीदृग् योषितोऽस्या हृदि स्थिता ॥ २२५ ॥ अनुभूतं मया सर्व दृष्टं पौरव्रजादिभिः। प्रियेण स्वयमेवोक्तं कथमेषा न मन्यते ॥ २२६ ॥ अभव्यो दूरभव्यो वा जिनरुक्तः स देहभाग् । धर्मतत्वं परेणोक्तं न श्रद्धत्तेऽपि यः कुधीः ॥ २२७ ॥ प्रभाते निग्रहं त्वस्याः करिष्ये सर्वसाक्षिकम् । धर्माधिक्षेपकृन्नान्यो यथा कश्चन जायते ॥ २२८ ।। स्माह मन्त्री महाराज ! भूयानेवंविधो जनः । पुरेऽस्ति कियतां कर्तुं निग्रहः शक्यते त्वया ॥ २२६ ॥ न तत्कुलं न तद्वेश्म नासौ वंशोऽस्ति भृतले । यस्मिन् मिथ्यात्वमूढात्मा जन्तुः कोऽपि न विद्यते ॥२३० ॥ संसारसागरे स्वामिन् ! मिथ्यात्वमकराकुले । सद्दशनमयं रत्नं लभते पुण्यवान् जनः ।। २३१ ।। दध्यौ चौरोऽपि तत श्रत्वा स्वरूपं मे पितुः पुनः । यथास्थितमियं योषिन्न कथं प्रतिपद्यते ॥ २३२ ।। जघन्यानां शिरोरत्नं नूनमेषा नितम्बिनी । नाङ्गीकरोति या सत्यं स्वयं प्राणप्रियोदितम् ।। २३३ ।। धर्मज्ञेन प्रियेणोक्तं कुलीना एव कुर्वते । जात्यरत्नततावेव तेजःपुनः प्रजायते ॥ २३४॥ पत्यौ भक्तिगृहाचारचारुता पूज्यपूजिता । विनयोऽतिथिसत्कारः शृङ्गारोऽयं मृगीदृशाम् ॥ २३५॥ ततः कुन्दलां प्राह श्रेष्ठी सर्वज्ञधर्मविद । विमुग्धे ! भवती सम्यग् तत्त्वं नैव विबुध्यते ॥ २३६ ॥ EXXXXXXXXXXXXXXXX DOOPOrporppa ॥ ७९ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy