SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव ॥७७॥ अङ्गी गिरिसरिग्रावघोलनान्यायतः परम् । एकाब्धिकोटाकोठ्यन्तःस्थिति निर्माय कर्मणाम् ॥ १६६ ॥ यथाप्रवृत्तकरणात् प्राप्नोति ग्रन्थिसन्निधिम् । रागद्वेषपरीणामो दुर्भेद्यो ग्रन्थिरुच्यते ॥ १६७॥ संप्राप्तग्रन्थिदेशं तु रागद्वेषवशंगतः । उत्कृष्ट कर्मणां भूयः स्थितिं बध्नाति कश्चन ।। ११८॥ समुद्भुतमहावीर्यस्तं ग्रन्थि दुरतिक्रमम् । अतिक्रामेत्क्षणात् कश्चिदपूर्वकरणे कृते ॥ १६ ॥ कृतेऽन्तरकरणेऽथानिवृत्तिकरणे सति। मिथ्यात्वं विरलीकुर्याद्वेदनीयं यदग्रतः ॥ २०॥ आन्तमौहर्तिकं सम्यग्दर्शनं लभते हि यत् । निसर्गहेतुकमिदं सम्यग्श्रद्धानमीरितम् ॥ २०१॥ षड्भिः कुलकम् ॥ गुरूपदेशमासाद्य धर्ममार्गमनाविलम् । यः श्रद्धत्ते सुधीस्तस्योपदेशरुचिता स्मृता ।। २०२॥ रागद्वेषविमोहाना क्षयादाज्ञावलेन यः । मन्यते नवतत्त्वानि स आज्ञारुचिरुच्यते ॥ २०३॥ अङ्गानङ्गप्रविष्टं यो भणन् सूत्रं विगाहते । सम्यक्त्वं स सूत्ररुचिः सम्यग्दृष्टिरुदीरितः ॥ २०४॥ एकेन श्रद्दधानस्य पदेन प्रतिभासितः। प्रसरत्यनेकपदेष्वसौ बीजरुचिर्मतः ॥ २०५ ॥ अर्थतः सकलं येन श्रुतं दृष्टं महात्मना । सोऽभिगमाख्यरुचिः स्यात्सम्यग्दृष्टिर्जिनोदितः ॥ २०६॥ नयभेदप्रमाणेयः षडद्रव्याणां प्ररूपणम् । कतु सम्यग्विजानाति स विस्ताररुचिमतः ॥ २०७॥ ज्ञानदर्शनचारित्रतपोविनयगुप्तिषु । क्रियास्तद्यमनं यस्य स क्रियारुचिरुच्यते ॥ २० ॥ स संक्षेपरुचिः ख्यातः कुदृष्टिष्वनभिग्रही । प्रमाणं जिनवाक्यं मे मन्वान इति यो हृदि ॥ २० ॥ ॥७७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy