SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: ॥७५॥ XXXXXXXXXXXXXXXXXXXXXXXX प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितभारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्यराजीवितान्तं, न हि कृतमुपकारं साधवो विस्मरन्ति ॥१॥ अथ प्रसेनजिद्राजा रजोऽतीतगुणोदयः । प्रत्यक्षं मे पितुर्वेश्मागतः स्तुतिमिति व्यधात् ।। १७८ ॥ धन्यानामग्रणी श्रेष्ठिस्त्वमेवासि महीतले । यस्य सत्त्वोपकाराय तवैवं रमते मतिः ।। १७६ ॥ यतः ते तावत्कृतिनः परार्थघटकाः स्वार्थावरोधेन ये, ये च स्वार्थपरार्थसाधनपरास्तेऽमी नरा मध्यमाः । ते मी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते, ये तुघ्नन्ति निरर्थकं परहितं ते के ? न जानोमहे ॥१॥ यद्वेदृशः स्वभावाः स्युः प्रायेणोन्नतचेतसः । दुःखं सौख्याय मन्यन्ते यदन्यानुहेच्छया ।। १८० ॥ यतः लवयति भुवनमुदधेर्मध्यं प्रविशति च वहति जलभारम् । जीमूतः सत्त्वहिताः किं न हि कुर्वन्ति चान्यार्थे ? ॥१॥ त्वयैवाऽऽहतमुख्येन परमेतत पवित्रितम । त्वत्संगतिश्च जन्तनां भवेत्पण्यानभावतः ॥ ११ ॥ जिनेन्द्रशासनं सद्भिः संगः सद्गुरुसेवनम् । काले सुपात्रदानं च लभ्यन्ते पुण्यतः परम् ॥ १८२॥ आचचक्षे ततः श्रेष्ठी राजानं विनमच्छिराः। देव ! धर्मप्रभावेन किं किं श्रेयो न जायते ॥ १८३ ॥ EXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy