SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव ||७४॥ XXXXXXXXXXXXXKKKKKKKXXXXX आहृय जिनदत्ताह श्रावक नरनायकः। सत्कृत्य क्षमयामास स्वकृतं दुष्कृतं ततः ॥ १६६ ॥ देवमायां तिरस्कृत्य पुरस्कृत्य तमास्तिकम् । सुरः स्फुरन्महश्रेण्या सृजन धर्मोन्नति पराम् ॥ १६७॥ आरोप्य हस्तिनः स्कन्धे श्वेतच्छत्रविराजितम् । वीज्यमानं चलच्चारुचामरैरप्सरोगणेः॥१६॥ नानातोद्यमहाध्वानगर्जदम्बरमण्डलम् । नृत्यदेवाङ्गनाक्षिप्तसर्वपौरनरवजम् ॥१६६ ॥ राजाामात्यपुरारक्षैः पुरोगैः परिवारितम् । अनीनयन्निजावासे जनकं मे जगद्धितम् ॥ १७० ॥ चतुर्भिः कलापकम् ।। रत्नवृष्टिं ततः कृत्वा मत्पितुर्भवनाङ्गणे । भक्त्या नाकी नमस्कृत्य जगाम निजमास्पदम् ॥ १७१ ॥ श्रुत्वा श्रेष्ठिवचश्चौरो रहस्थ इत्यचिन्तयत् । अहो ! कुलक्रमायाता चौयवृत्तिममाप्यभूत् ॥ १७२ ॥ देवलीलायितं श्रुत्वा श्रेष्ठिनश्चोपकारिताम् । विमृशं चक्रतुर्भपमन्त्रिणौ च तदा हृदि ॥ १७३॥ अहो! धर्मवतां पुंसां संनिधिः संपदा निधिः । प्राप्यते यदि पुण्योधैस्तदा किं किं न लभ्यते ? ॥१७४ ॥ सदानन्दसुखास्वादनिमग्नरमरैरपि । युक्तमाशास्यते नित्यं संयोगो गुणशालिनाम् ॥ १७५ ॥ नरकाध्वनि संचारी चौरोऽयं करकर्मभिः । श्रेष्ठिनोऽमुष्य संपर्काद्यतो लेभे सुरश्रियम् ॥ १७६ ।। यतः जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति । चेतः प्रकाशयति दिक्ष तनोति कीर्ति सत्संगतिः कथय किं न करोति साम् ॥१॥ देवोऽप्येष विशेषेण कृतज्ञजनमण्डनम् । विसस्मार न यः श्रेष्ठिरचितोपकृतिस्थितिम् ।। १७७ ।। यतः XXXXXXXXXXXXXXXXXXXXXXXXX ||७४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy