________________
तृतीय
सम्यक्त्वकौमुदी
प्रस्ताव
॥७॥
(XXXXXXXXXXXXXXXXXXXXXXXXX
असौ पश्चनमस्कारः कष्टकोटिविघट्टकः । प्राणान्ते प्राप्यते पुण्यवद्भिः सर्वसुखप्रदः॥ १२४॥ सोऽप्याख्यद्दहि मे बन्धो । मन्त्रं तं दुःखवारकम् । परमेष्ठिनमस्कारं तस्मै श्रेष्ठी ददौ तदा ॥ १२५ ॥ सुधापानमिव प्राप्य चौरः पश्चनमस्कृतिम् । आससाद महानन्दं देवश्रीवर्णिकोपमम् ॥१२६ ॥ ततः श्रेष्ठी द्रतं लात्वा पयो यावत्समाययौ । तावद्विपद्य तद्धयानादापद्देवपदं त्वसौ ॥ १२७॥ जिनदत्तस्तथाऽवस्थं तं ज्ञात्वा व्यथितो हृदि । दध्यौ दीनदयादानोद्भवं पुण्यं न मेऽभवत ॥ १२८ ॥ पुण्यपात्रोपभोगाय दीनानां चार्तिशान्तये। पयोऽन्नप्रमुखं वस्तु धन्यस्यैवोपयुज्यते ॥ १२६ ।। अवलोक्य ततो देहं जिज्ञासुस्तस्य सद्गतिम् । लक्षणेातवानेष देवोऽयं समजायत ॥ १३० ॥ चौरस्वाजन्यसंबन्धजिज्ञासातत्परैनरैः। स्वरूपं श्रेष्ठिनो दृष्टा न्यवेद्यथ महीपतेः ॥ १३१॥ श्रुत्वा तद्भूपतिः कोपात्तामृताम्राननद्युतिः। पुरारक्षकमाहूय तत्क्षणादित्यभाषत ॥ १३२ ॥ मयूरवन्धमाबद्धथ श्रेष्ठी दुष्टतमाशयः । आनीय तां गृहे दत्वा मुद्रा भद्र ! मदक्षराम् ॥ १३३ ॥ सोऽपि गत्वा तदावासे निष्ठुरोक्तिवदावदः। आकार्य श्रेष्ठिराजं तदाययौ राजसंसदि ॥ १३४॥ आगच्छन् सोऽपि भूपौकः समं तेन समाधिमान् । शुभध्यानमिदं चक्रे द्विधाऽऽतङ्कान्तकप्रभम् ॥ १३५ ॥ चतुस्त्रिंशदतिशययुक्ता मुक्ताफलोज्ज्वलाः। अर्हन्तः शरणं सर्वे शिरस्था विश्वतायिनः ॥ १३६ ॥ अनन्तसुखसंप्राप्ता विद्रुमच्छायमूर्तयः । सिद्धा मे शरणं विश्वश्रीवशीकारकारणम् ॥ १३७॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१॥