SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव ॥ ७०॥ KXXXXXXXXXXXXXXXXXXXXXXX) एकशोऽपि कृतं कर्म दुःखकोटि फलावहम् । भवे भवे भवेदेव बीजवज्जीवसन्ततः ॥ ११४ ॥ एवं चिन्तयतस्तस्य व्यथावेगेन भूयसा । तपनातपसंतापात्तषाऽतीवाभवत्तदा ॥ ११५ ॥ वजन्तं सविधेर्लोकं ययाचेऽसौ पयो भृशम् । परं न कोऽपि तत्तस्मै दत्तवान नृपतेर्भयात् ।। ११६॥ तत्रागाज्जिनदत्तोऽथ श्रेष्ठी शिष्टशिरोमणिः । कृपालुः सर्वजीवेषु दुःखितेष्वधिकं पुनः ॥ ११७ ॥ तं दृष्वा याचते नीरं पीडितोऽसौ पिपासया । विमृष्टवानिति स्वान्ते सोऽन्यार्थंकपरायणः ॥ ११८ ॥ जिनेन्द्रधर्मः सर्वेषु धर्मेषु प्रदरो मतः । धर्मेऽप्यङ्गिदया मुख्या दुःस्थितेषु विशेषतः ।। ११६ ॥ न भवेदुःखितं दृष्ट्वा यस्य चेतः कृपाप्लुतम् । न तस्याहतधर्मस्य लेशोऽपि हृदि संस्थितः ॥ १२० ॥ त एव मनुजा धन्या मान्याश्च मरुतामपि । ये परप्राणिवर्गस्य दुःखोद्धारधुरंधराः ।। १२१॥ यतः शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः। किं त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुज दुःखादितं यन्मन स्ताद्रप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः॥१॥ प्रीणयन् मधुरालापर्लपति स्म स तं पुनः । यावद्ददामि ते नीरमानीय निजवेश्मनः ॥ १२२ ॥ अनेक भवसन्तापसंभारक्षयकारकम् । नमस्कारमयं मन्त्रं तावत्पिब सुधोपमम् ॥ १२३ ॥ KKXXXXXXXXXXXXXXXXXXXXXXX
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy