SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ।। ६६ ।। *********** नानोपायान् सृजन् मन्त्री तदालोकन कौतुकी । आकारयद्रजः कीर्णं भोजनावासभूतलम् ॥ १०० ॥ तद्द्वारे स्थापिता आप्तपुरुषाः परुषाशयाः । द्वाः पिधानविधौ तेन सङ्कं तं कृतपूर्वः ॥ १०१ ॥ सोऽपि तस्मिन् दिने तत्र तस्थौ भोजनवेश्मनि । दम्भवान्निभृतं पश्यन् तच्चिह्नानि मनीषया ॥ १०२ ॥ कृतस्नानः शुचिः श्रीमान् समभ्यर्च्य जिनेश्वरान् । अथागमन्नृपो यावद्भोजनाय स विष्टरे ॥ १०३ ॥ आयासीद्रसगृद्धात्मा तावता स मलिम्लुचः । लक्षितस्त्वंघ्रिभिस्तेन रजसि प्रतिविम्वितैः ॥ १०४ ॥ स द्वारं दापयामास पुरा सङ्क तितैर्नरैः । आर्द्रेन्धनौषधादीनां संनिपातप्रपञ्चतः ॥ १०५ ॥ गृहान्तः कारयामास धूमस्तोमं च दुस्सहम् । लोचनानुपयः पूरद्रावकर्मणि कर्मठम् ॥ १०६ ॥ युग्मम् || तद्बलेन गलन्नेत्रयुग्मादञ्जनमद्भुतम् । अपतत्तत्क्षणान्चौरो जज्ञे दृश्यवपुः पुनः ॥ १०७॥ उपलक्ष्य क्षणाच्चौरं पापपूरं तु जङ्गमम् । उवाच वसुधाधीशः कोपताम्रमुखद्युतिः ॥ १०८ ॥ अरे दुष्ट ! दुराचार ! मलिम्लुच ! मलीमस ! । भवता मलिनीभावमश्नुता गमिता वयम् ॥ १०६ ॥ इत्युदीर्य नृपः कोपानगरारक्षकं प्रति । आदेशं दत्तवांस्तस्य शूलारोपणकर्मणि ॥ ११० ॥ सोऽपि भूपोपजीवित्वान्मारं मारमनेकधा । तं तथाकृतवान् वध्यभूमौ नीत्वा दुराशयः ॥ १११ ॥ शूलामारोपितः सोऽपि पच्यमानः स्वकर्मणा । तीव्रदुःखाग्निसंतप्तकायश्चिन्तितवानिति ॥ ११२ ॥ अहो ! कर्मविपाकोऽयमहो ! दुःखपरंपरा । अहो ! पापभरस्यासीत्फलमत्रैव मे पुनः ॥ ११३ ॥ ★★★★ *************** तृतीय प्रस्तावः ॥ ६६ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy