SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तृतीय सम्यक्त्वकौमुदी प्रस्ताव ॥६६॥ RXXXXXXXXXXXXXXXX तृणाग्निसदृशी दृष्टिः कस्यचिद्रुचितो भवेत् । झटिस्त्युत्पन्नमात्राऽपि याति मोहोदयात्क्षयम् ॥ ६०॥ गोमयानलवद्दीप्ता कस्यचित काष्ठवह्निवत । कस्यापि दोपवद्दीपा दृष्टिः शुद्धतरा भवेत् ॥ ६१॥ कस्यचिद्रत्नवत्कान्त्या ताराभा सा समुल्लसेत् । सूर्यबिम्बोपमा काचिच्चन्द्रदीप्तिसमा परा ॥ ६२॥ यथोत्तरं भवेदेषा यस्य यस्य शरीरिणः । आसन्नसिद्धिता प्रास्तस्य तस्य प्रकीर्तिता ॥ ६३॥ शमसंवेगनिर्वेदाः कृपा सर्वेषु जन्तुषु । तत्त्वश्रद्धानमभ्रान्तमेतासां लक्षणं स्मृतम् ॥ ६४ ॥ विरतिर्जायते यस्य देशतः सर्वतोऽथवा । औचित्यादिगुणोपेता सम्यग्दर्शनपूर्विका ॥६५॥ तस्य श्लाध्यतमः ख्यातो नृभवो भवभेदिभिः । सर्वार्थसाधकत्वेन प्रार्थनीयः सुरैरपि ॥६६॥ सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीदं तस्य सुलब्धं भवति जन्म ॥ ६७॥ निशम्येति गुरोः पावें जिनदत्तः स तत्त्वविद् । श्रीसम्यक्त्वयुतं धर्ममग्रहीत् श्रावकोचितम् ॥ ६८॥ गृहस्थधर्ममादाय सम्यग्दर्शनसंयुतम् । राजाऽपि च गुरु नत्वा निजावासमशिश्रियत् ।। ६६ ।। अथात्रैवाभवद्रूप्यखुरः प्रखरकर्मभूः। नानाविधधियां धाम चौरः पूर इवैनसाम् ।। ७० ॥ स्वैग्माट पुरस्यान्तस्तताप निखिलं जनम् । न योऽमन्यत भूपाज्ञा मन्त्रिणोऽजीगणत्तृणम् ॥ ७१ ॥ क्षणाचौरः क्षणात्साधुः सार्थवाहः क्षणात्तथा । क्षणाद्धर्मवता मुख्यो यश्चाजनि जने स्फुटम् ॥ ७२ ॥ कान्तयेवाक्षशौण्डात्मा व्यसनानां तु वारिधिः । स द्यूतक्रीडयाऽन्येधुर्दिदेवाहर्निशं पुरे ॥ ७३ ।। TXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy