SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥६५॥ K***** गुरुणेव प्रजा येन पाल्यमाना महीभुजा । पराभवभवं तापं न प्रापत्वापि भूतले ॥ ४८ ॥ यस्याग्रतो जनो मेने न तृणायापि वासवम् । मुनयोऽपि वितन्वन्ति तथा सद्दर्शनस्पृहाम् ॥ ४६ ॥ श्रेष्ठी श्रेष्ठाग्रणीरत्र जिनदत्तोऽभवत्कृती । राज्यमान्यः श्रियां धाम विश्वाङ्गिषु कृपापरः ।। ५० ।। चैत्यं सहस्रकूटाख्यं निकषा निजमन्दिरम् । योऽचीकरञ्जगद्भतु भवार्णवत्तरीनिभम् ॥ ५१ ॥ उक्तं चरम्यं येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्योतितम् ॥ १ ॥ परं परोपकारार्थं गृहाश्रमनिवासिनः । अहमाईतमार्गस्थो यस्याभूवं तनूद्वहः ॥ ५२ ॥ प्रसेनजिति राजेन्द्रे राज्यं कुर्वति लीलया । अन्यदाऽत्र समायासीत् केशिदेवमुनीश्वरः ॥ ५३ ॥ आनन्दी मेदिनीपालस्तमानन्तुं नतामरम् । अगमज्जिनदत्तेन सार्द्धमन्तःपुरीवृतः ॥ ५४॥ नत्वा यथोचितं तेषु निविष्टेषु महीतले । निर्ममे निर्ममेशेन सम्यग्धर्मप्रकाशनम् ॥ ५५ ॥ भवेऽङ्गी चतुरशीतिं योनिलक्षान् भ्रमन् भृशम् । मानुष्यं लभते पुण्यान्निधानमिव दुर्गतः ॥ ५६ ॥ धर्मस्तत्रापि दुष्प्रापः प्रणीतः परमर्षिभिः । सम्यग्दर्शनसंशुद्धः साधुश्राद्धव्रतैवृतः ॥ ५७ ॥ धर्मस्य द्विविधस्यापि द्वारं सद्दृष्टिरुच्यते । तृणवद्वयादिदृष्टान्तैरष्टधा सा पुनः स्मृता ॥ ५८ ॥ तृण १ गोमय २ काष्ठाग्निकण ३ दीपप्रभोपमा ४ । रत्न ५ ताराऽ६ ७ चन्द्रा ८ मा सदृष्टेष्टिरष्टधा ॥ ५६ ॥ *** *************** तृतीय प्रस्तावः ॥६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy