SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तृतीय सम्यक्त्वकौमुदी प्रस्ताव: ॥६४॥ XXXXXXXXXXXXXXXXXXXXXXXX) त्वनामकीर्तनादेव देवदेवपतिस्तुत !! भवार्तयो विलीयन्ते सुधास्वादादिवामयाः ॥ ३६॥ यस्य त्वदर्शनं देव ! द्विधा सम्यक् प्रजायते । तस्य विश्वत्रयोत्कृष्टाः संपदः स्युः पदे पदे ॥ ३७॥ इत्थं स्तुतो जगन्नाथ ! सनाथ त्वं शिवश्रिया । प्रसीद परमानन्दसंपदः कुरु मां पदम् ॥ ३८ ॥ स्तुन्वैवं भुवनाधीशं प्रियाभिः प्रेरितः सुधीः । संगीतकविधि श्रेष्ठी विधूतकलुषो व्यधात् ॥३१॥ दृष्ट्वा तदर्चनायोगं विश्वविश्वत्रयाद्भुतम् । समन्त्री नृपतिर्दध्यो स्तेनेन सममागतः ॥ ४०॥ अयमेव भुवि श्लाघ्यः प्रथमो गृहमेधिषु । ईदृशी यस्य जागर्ति हृदि भक्तिर्जिनेश्वरे ॥४१॥ यतः भक्तिर्जिनेषु दृढता जिनभाषितेषु श्रद्धा च धर्मकरणेषु गुणेषु रागः। दानेषु तीव्ररुचिता विनयेषु वृत्तिः कस्यापि पुण्यपुरुषस्य भवत्यवश्यम् ॥१॥ सिद्धिसीमन्तिनीदूतीं कृत्वा भावार्चनां ततः । विरतं श्रेष्ठिनं कान्ता जगदुर्जगदुत्तमम् ॥ ४२ ॥ हंहो स्वामिन् ! कथं जज्ञे सम्यक्त्वं भवतां हृदि । स्वर्णाचलवदक्षोभ्यं मनागप्यमरैरपि ॥ ४३ ॥ वाचं विस्तारयामास श्रेष्ठी तासां पुरः पुनः । यथास्थितार्थसंयुक्तां सम्यक्त्वपथदीपिकाम् ॥ ४४ ॥ अस्मिन्नेव पुरे राजा पुराऽजनि प्रसेनजित् । शत्रराजीभिरजितो राजीवोपमलोचनः ॥ ४५ ॥ जनं यः स्मारयामास दानैर्जीमूतवाहनम् । धर्मात्मजं च धर्मेण न्यायैर्दाशरथिं तथा ॥४६॥ यस्य पुत्रः पवित्रश्रीश्रेणिकः प्रीणितप्रजम् । भुनक्ति सांप्रतं पुण्यप्राज्यं साम्राज्यमद्भुतम् ॥४७॥ KXXXXXXKREKKARXKKKRXKAKKRA
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy