SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी तृतीय प्रस्ताव: ॥६३॥ अहं निश्छद्मसद्धर्मध्यानाधीनमना निशि । पूजा द्रव्यमयीं कृत्वा करिष्ये भावपूजनम् ॥ २३ ॥ इति प्राणप्रियप्रोक्तं श्रुत्वा ता विनयानताः। प्रोचुरद्य प्रभोऽस्माकं बभूव क्षपणाष्टकम् ।। २४ ॥ उपावृत्तिस्तु पापेभ्यो वासश्च सह सद्गुणैः । उपवासदिने कर्तुं युज्यते विमलात्मनाम् ॥ २५ ॥ तेन नः कानने गन्तुं न युक्तं महहेतवे । आर्यपुत्रैः समं पूजा कर्तव्या द्विविधाहताम् ॥ २६॥ सांसारिकक्षणारम्भ त्वरते तस्य मानसम् । यो न वेत्ति जिनाधीशवाक्यं विश्वरविप्रभम् ।। २७ ॥ महाः सर्वेऽपि सुप्रापा ऐहिकानन्ददायिनः । दुर्लभा वाहती भक्तिर्लोकद्वयसुखावहा ॥ २८॥ सोऽवक धन्यतमा यूयं ज्ञाततत्त्वाश्च निश्चितम् । यासां हि दृढधर्मत्वमेवं प्रौढोत्सवेऽपि वः ॥ २६ ॥ प्रायश्चलाचलं स्त्रीणां सुधियामपि मानसम् । लोकप्रवाहतो दृष्टं वातोत्क्षिप्ताकैतूलवत् ।। ३०॥ प्रासादशिखरे तुङ्ग वंशे बद्धा गुणोत्करैः । पताका कम्पते वातान्निर्मलाऽपि स्वभावतः ॥ ३१ ॥ इत्युदीर्य शुचीभृय भूम्ना भावेन भावितः । अगादयं प्रियायुक्तः स्वावासजिनवेश्मनि ॥ ३२ ॥ स द्रव्यपूजा विधिवद्विधाय श्रद्धासमृद्धः परमेश्वरस्य । साई प्रियाभिः प्रियधर्मिकाभिर्भावार्चनाथ स्तुतिमित्यपाठीत् ॥ ३३ ॥ जय त्वं जगदानन्दकन्दपल्लवनाम्बुद ! । योगीन्द्रहृदयाम्भोजविलासैकसितच्छद ! ॥ ३४ ॥ सर्वातिशयसंपन्नः सर्वाभीष्टफलप्रदः । सर्वज्ञः सर्वदर्शी च सर्वात्मा त्वं जय प्रभो ? ॥३५॥ EXXXXXXXXXXXXXXXXXXXXXXXXX ॥६३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy