SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तृतीय सम्यक्त्वकौमुदी XXXXXXXXX एवं सुयोधनधराधिपतेश्चरित्रं श्रुत्वा प्रकाशितविरोधफलस्वरूपम् । मन्त्रीश्वरेण कथितं प्रथितं पृथिव्यां पृथ्वीश्वरोऽजनि तदाऽद्भुतहर्षवर्षी ॥ ५१२ ॥ ॥ इति श्रीसम्यक्त्वकौमुद्यां तपोगच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यैः पण्डितजिनहर्षगणिभिः कृतायां द्वितीयः प्रस्तावः ।। ग्रन्थाप्रम् ५६८ अक्षर १७ ।। प्रस्ताव: ॥६ ॥ ॥ अथ तृतीयः प्रस्तावः॥ ततो देवगुरुध्यानमेकतानतया नृपः । कृतवान् कृतिकल्पद्रः क्षणं स्वान्तस्थिरीकृते ॥१॥ अतीवविषयाविद्धं परं चश्चललक्षवत् । न मनः स्थिरतां भेजे क्षणमप्यवनीभुजः॥२॥ सुकरं मलधारित्वं सुकर कष्टसेवनम् । मनसस्तु स्थिरीभावो देहिनां दुष्करः परम् ॥ ३॥ पुनः कुतूहलावेगतरङ्गतरलाशयः । अभ्यधादभयं मन्त्रिधौरेयं मगधाधिपः ॥ ४ ॥ सांप्रतं यत्त्वया प्रोचे सांप्रतं तन्महामते ।। यदाखुभिनरेन्द्रोऽपि गजार्थं व्याकुलीकृतः ॥ ५॥ गते सत्यधुनोद्याने विरोधः स्याजनैः समम् । विरोधे च श्रियो हानिः कर्मबन्धश्च जायते ॥ ६ ॥ परं कौतूहलाक्रान्तं स्वान्तं मे तरलीभवत । उत्कण्ठते पुरीमध्ये मध्यलोकं विलोकितुम् ॥ ७॥ यत्तत्कार्यवशं राज्ञश्चेतः कार्य विचक्षणः । इत्यालोच्यावदपमेवमस्तु तु धीसखः ॥ ८॥ KXXXXX ॥६१॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy