________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
॥६०॥
XXXXXXXXXXXXXXXXXXXXXXXX
देवं रागयुतं गुरु विषयिणं धर्म दयावर्जितं, यो नैव त्यजति प्रमोहवशतः स त्यज्यते श्रेयसा ॥१॥
विदधे सोऽथ विज्ञप्ति विचार्यैवं महीपतेः । येषामेतानि वस्तूनि ते प्रभो ! पश्यतोहराः ॥ ५०१॥ विनष्टं कार्यमेतन्नो विमृश्येति नपादयः । यमदण्डे तदा दण्डं विधातु नाभवन् क्षमाः ॥ ५०२॥ न्यायः सखा भवेद्यस्य पक्षपाती च पूर्जनः । नृपोऽपि शङ्कते तस्मात् किमन्यः प्राकृतो जनः ॥ ५०३ ॥ प्रपञ्चेन तिरस्कृत्य तान् क्रमेण महाजनः । अतिष्ठिपत् पदे तेषां तत्पत्रान् न्यायशालिनः॥ ५०४॥ सर्वलोकविरोधेन भ्रष्टाः स्वीयपदस्थितेः । तेऽपमानभरं प्रापुर्विरोधो हि हिताय नो ॥ ५०५ ॥ अत एव महादेव ! साकं केनापि धीमता । विरोधो नैव कर्तव्यो विशेषाद्बहुभिर्जनः ।। ५०६ ॥ पराभवपदं नीत्वा नोपेक्ष्यो बुद्धिचक्षुषा । यादृशस्तादृशः प्राणी स्माहुर्नीतिविदो जनाः ॥ ५०७ ॥ पराभवो न कर्तव्यो यादृशे तादृशे जने । तेन टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ ५०८ ॥ ततः सुयोधनो भूभृत्तां परित्यज्य नीवृतम् । युक्तो मन्त्रिपुरोधाभ्यां देशाद्देशान्तरं भ्रमन् ॥ ५०६ ॥ धर्मघोषगुरुं प्राप्य शुद्धधर्मप्रकाशकम् । जातसंवेगनिर्वेदश्चारित्रं प्रत्यपद्यत ॥ ५१० ॥ पुंसां पुण्यात्मनां प्रायो द्विविधैव स्थितिभवेत् । साम्राज्यकमलाभोगोऽथवा चारित्रसंपदः ।। ५११ ॥
KXXXXXXXXXXXXXXXXXXXXXXXX