________________
सम्यक्त्व. कौमुदी
द्वितीय प्रस्ताव:
॥ ५४॥
KXXXXXXXXXXXXXXXXXXXXXXXX
ततः पृथ्वीपति, सर्वमाकार्य नगरीजनम् । बभाषे रोषसंभारसिन्दूरारुणलोचनः ॥ ४८८ ॥ अमुना भो जनाः! सप्त वासराश्चातुरीकृता । गमिता धूर्तवृत्त्यैव मदादीनवजानता ॥ ४८६॥ सचौरराजवस्तूनि यदि नातः परं त्वसौ । अर्पयिष्यति कुर्वेऽहं तदानीमस्य निग्रहम् ॥ ४६० ॥ इत्याकर्ण्य भुवो भतु वचनं वचनात्मकम् । आनीय दर्शयामास चौरचिह्नानि स क्षणात् ॥ ४६१॥ पादुके पृथिवीशस्य मुद्रिका मन्त्रिणस्तथा । हेमसूत्रमयं यज्ञोपवीतं च पुरोधसः ॥ ४९२ ॥ चौराभिज्ञानवस्तूनि सर्वाण्येतानि भूपते ! विलोकय प्रसन्नेन मनसेत्यब्रवीच सः॥ ४६३॥ तान्यालोक्य पुरस्थानि तदा भूपादयोऽभवन् । प्रम्लानवदनाम्भोजाः साशङ्कमनसोऽधिकम् ।। ४६४ ॥ पुराऽपि ज्ञातवृत्तान्ता राजमन्त्रिसुतादयः । सामन्तवेष्ठिलोकाश्च चक्रुरेवं विचारणाम् ॥ ४६५ ॥ चिह्न रेभिर्विभाव्यन्ते विच्छायमुखपङ्कजाः। चौराः क्र रैककर्माणो राजमन्त्रिपुरोधसः ॥ ४६६ ॥ यत्र राजा स्वयं चौरः समन्त्री सपुरोहितः । जायते तत्र लोकानां काननं शरणं ध्रुवम् ॥ ४६७ ॥ भृत्यवर्गाय सन्न्यायपालिने ख्यातिशालिने । असूयति नराधीशः प्रायश्चेटकचेष्टितः ॥ ४६८ ॥ अन्योन्यं निर्ममे तत्र विचारं तु महाजनः। अमी पुरे दुराचारा नायतो कुशलाय नः॥ ४६॥
येन केनाप्युपायेन निष्काश्यैतान दुराशयान् । स्थापनीयाः पदे तेषां सूनवोऽमी महाशयाः ॥ ५०० ॥ यतःमित्रं शाठ्यपरं कलत्रमसतीं पुत्रं कुलध्वंसिनं मूर्ख मन्त्रिणमुत्सुकं नरपतिं वैद्यं प्रमादान्वितम् ।
॥ ५९॥