SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव ॥५४॥ XXXXXXXXXXXXXXXXXXXX***** इति प्रकाशितस्यापि रहस्यस्य पराङ्मुखम् । प्रणम्य वसुधाधीशं दुर्गपालोऽगमद्गृहम् ॥ ४३३ ॥ विषयग्रामसंवन्धिचिन्तां त्यक्त्वाऽथ भूपतिः। आत्मावासं श्रयन भेजे स समाधिं सुसाधुवत् ॥ ४३४ ॥ ॥ इति पञ्चमदिनकथा ॥ भूभुजाऽथ दिने षष्ठे पृष्टः पूर्वमिवावदत् । पुरारक्षस्तदाख्यानं संख्यावत्कौतुकप्रदम् ॥ ४३५॥ कुरुदेशावनीखण्डमण्डनं पण्डितप्रियम् । पुरं नागपुरं रम्यं पुन्नागावलिशालितम् ॥ ४३६ ॥ तत्रासीन्त्रासितारातिः सत्ततिप्रीतिपूरकः । सुभद्राख्यः क्षमापालः सुभद्रापतिविक्रमः ॥ ४३७ ।। तस्य चेतोविनोदाय कपयः सन्ति भूरयः । भूयः क्रीडाभृतोऽतुल्यचापल्यजितवायवः ॥ ४३८ ॥ चञ्चलेस्तैर्विशामीशो यथा स्त्रीलोचनाञ्चलैः । आकृष्टो रममाणः स्वं विसस्मार कुधीहितम् ॥ ४३६ ॥ भूपप्राप्तप्रसादानां तेषामुपप्लवं पुरे । कुर्वतामपि नो कश्चिद्विवाधां कुरुते भयात् ॥४४०॥ राज्ञाऽथान्तःपुरीक्रीडाहेतवे नूतनं वनम् । चम्पकाशोकपुन्नागनारङ्गकदलीमयम् ॥ ४४१॥ तमालतालहन्तालविशालं सालशालितम् । अकारि सुखकारिश्रि भद्रशालवनोपमम् ।। ४४२ ॥ युग्मम् ।। तस्मिन्नरेश्वरः शश्वत स्वान्तःपुरपरीवृतः । लीलायते मरालीभृन्मराल इव हर्षलः ॥ ४४३ ॥ तत्रान्यदा तरुभ्रशं कपयश्चापलाश्चिताः । कुतोऽप्यागत्य कुर्वन्ति शीधुपानमदोल्वणाः ॥ ४४४ ॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥ ५४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy