________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्तावः
॥ ५३॥
KRRRXXRXXXXXXXXXXXXXX
शैत्यं नामगुणस्तवैव भवतः स्वाभाविकी स्वच्छता, किं ब्रमः ? शुचितां ब्रजन्त्यशुचयः सङ्गन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं ? त्वं जीवितं देहिनां,
त्वं चेन्नीचपथेन गच्छसि पयः ! कस्त्वां निरोर्बु क्षमः ? ॥१॥ बहिम क्तः क्षणादेव बदन्नेवं पयःस्तुतिम् । मन्त्रिराजः सरिदेव्या तत्पुण्याकृष्टचेतसा ॥४२५ ॥ तत्र मुक्तश्चरः कश्चित् स्वरूपं मन्त्रिणोऽखिलम् । राज्ञे विज्ञपयामास यथावद्देवताकृतम् ॥ ४२६ ॥ ततो दध्यौ धराधीशो विरूपं विदधे मया । आश्रितेचिता नैव गुणदोषविचारणा ॥ ४२७ ॥ यतः
चन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा, दोषाकरः स्फुरति मित्रविपत्तिकाले।
मूर्ना तथाऽपि विधृतः परमेश्वरेण, न ह्याश्रितेषु महतां गुणदोषचिन्ता ॥२॥ ततो मन्त्री समाहृय प्रसन्नेन महीभृता । सत्कृत्य बहुमानेन स्थापितः प्राक्तने पदे ॥ ४२८ ॥ कोपनीयो महीजानिन नर्मवचनैरपि । इति चिन्तापरो मन्त्री राजकार्यकरोऽभवत् ॥ ४२६ ॥ क्रमादवसरं प्राप्य राज्यभारधुरं निजाम् । न्यस्य पुत्रे स्वयं जज्ञे मन्त्री जैनमुनिर्महान् ॥ ४३० ॥ दुर्लभां धर्मसामग्री यः प्राप्य स्वात्मनो हितम् । न कुर्यात् समये किश्चिद्विवेकी स कथं मतः १॥ ४३१ ॥ एवं कां महीनाथ ! शृण्वतो बुधसंसदि । समाऽभूत्समयक्षेपो दुर्जयं हि श्रुतीन्द्रियम् ॥ ४३२ ॥
॥ ५३॥