________________
द्वितीय
सम्यक्त्वकौमुदी
प्रस्ताव:
॥५२॥
XXXXXXXXXXXXXXXX
आत्मनो भूषणं विद्या शरीरस्य हरिप्रिया । दानस्योदारता शीलं पुनः सर्वस्य भूषणम् ॥ ४१३ ॥ एकदान्तःसमं विद्वद्गोष्ठयां सचिवपुङ्गवः । बहुधाऽषयत्पद्यं भूभृतः प्रतिभाबलात् ॥ ४१४॥ राजाऽपि विदधे दोषोद्धारं काव्ये स्वबुद्धितः । मन्त्रिणा तु विशेषेण तददृषि पदे पदे ॥ ४१५ ॥ एवं तयोश्चिरं विद्यामदाध्मातेकचेतसोः । गुणदोषविचारेण विवादोऽभूदरुन्तुदः ॥ ४१६ ॥ कुपितेन ततो राज्ञा बन्धयित्वा दृढं करौ । गङ्गापगापयःपूरे प्रक्षिप्तः सचिवो निशि ॥ ४१७ ॥ प्राचीनपुण्ययोगेन स पपात स्थलोपरि । सहायो धर्म एवास्ति यतः सर्वत्र देहिनः ।। ४१८॥ व्यचिन्ति मन्त्रिणा तत्र स्थितेन न कविं कविः । क्षमते लोकरूढिर्या राज्ञा सत्यीकृता तु सा ॥४१६ ॥
शिष्टाय दुष्टो विरताय कामी निसर्गतो जागरकाय चौरः ।
धर्मार्थिने कुप्यति पापवृत्तिः शूराय भीरुः कवये कविश्च ॥४२० ॥ अथागमत्पयःपूरस्तत्राकस्माद्दुरुत्तरः। उपरिष्टान्महामेघपुष्टवृष्टिसमुद्भवः ॥ ४२१॥ वारिपूरेण तेनाशु प्लाव्यमानेन मन्त्रिणा । अवादि प्राकृतं पद्यमिदं हृदि मुदावहम् ॥ ४२२ ॥ यथारोहंति जेण षीयाई जेण तप्पंति पायवा । तस्स मज्झे मरिस्सामि जायं सरणओ भयम् ॥१॥ एतद्गाथानुभावेन मन्याश्रितमहीतटम् । विहाय पयसा गन्तुमारब्धं नीचवर्मना ॥ ४२३ ॥ अधोऽधना जलं वीक्ष्य वहमानं सविस्मयः । पुनः पद्यमिदं ब्रूते स तदा सुस्थमानसः॥४२४ ॥
KXXXXXXXXXXXXXXXXXXXXXXX
॥५२॥