SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: ॥४८॥ KXXXXXXXXXXXXXXX* वचः सौधरसं पीत्वा तस्यैवं शस्यचेतसः। उवाच वसुधाधीशः कृपाकल्पलतावृतः ।। ३६१ ॥ न मे कार्य पुरेणापि न प्रतोल्या प्रयोजनम् । ईदृशं क्रियते पापं यदर्थ दुःखदायकम् ॥ ३६२ ।। पवित्रेऽत्र महीपीठे विधास्ये नगरं नवम् । न तु प्राणिवधं कुर्वे सर्वज्ञमतविभ्रुवम् ॥ ३६३ ।। जानन्नपि वचो जैनं सम्यक्तत्वप्रकाशकम् । यः कुमार्ग व्रजेज्जन्तुर्वस्तु वृत्त्यान्ध एव सः ॥ ३६४ ॥ राजानं दृढधर्माणं सत्त्वाढ्य च द्विजाङ्गाजम् । तदा निरीक्ष्य हृष्टाऽभूत्प्रत्यक्षा पुरदेवता ॥ ३६५ ॥ अवादीदिव्यरूपा सा समक्षं संसदामिति । धन्योऽसि त्वं महीनाथ ! सनाथं च त्वया जगत् ॥ ३६६॥ यस्येदृशी दृढा बुद्धिर्जीवरक्षाव्रतस्थितौ । सुरासुरनराक्षोभ्या दृश्यते ते महात्मनः ॥ ३६७॥ प्रायः स्वल्पेऽपि कार्येऽपि सत्वहीनाः शरीरिणः । यतन्ते व्रतभङ्गाय तत्त्वातत्वविदोऽपि हि ।। ३६८ ।। सम्यग्ज्ञानक्रिया यस्य प्राणेभ्योऽप्यधिका मता । स श्लाघ्यो न भवेत् कस्य ? यथा पुण्याट्यभूपतिः ॥ ३६९ ॥ इन्द्रदत्त ! नमस्तुभ्यं ग्रामण्ये सत्त्वशालिनाम् । इन्द्रादयोऽपि कुर्वन्ति किं पुनर्मादृशो जनः१॥३७० ॥ इति प्रशंसनापूर्वं तयोरुपरि निर्ममे । सुपर्वा सुमनोवृष्टिं विष्टपाश्चर्यदायिनीम् ॥ ३७१ ॥ प्रतोली तत्क्षणादेव तया देवतया नवा । अकारि कनकाकारा विश्वविस्मयकारिणी ॥ ३७२ ॥ प्रवेशं नगरे तस्मिन्नुच्छ्रितध्वजशालिनि । ततः प्रजाव्रजानन्दी विदधे वसुधाधिपः ॥ ३७३ ।। इन्द्रदत्तोऽपि मान्योऽभूत्ततः सर्वत्र सत्त्वतः। परोपकारनिष्ठात्मा यदाप्नोति महोदयम् ।। ३७४ ।। XXXXXXXXXXXXXXXXXXXXXXXXX RRRRIATKARI ॥४८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy