SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥४७॥ ****** ततः सद्वस्रताम्बूल भूषणादिविभूषितः । आनिन्ये पुरलोकेन स शिशुनृपतेः पुरः ॥ ३४८ ॥ सालङ्कारं सदाकारं विस्मेरवदनाम्बुजम् । दृष्ट्राऽभाषिष्ट तं भूपः सर्वेषां पश्यतामिति ॥ ३४६ ॥ किमर्थं कुरुषे हास्यं भो भद्र ! द्विजबालक !। लघोरपि भयं किं ते न चास्ति मरणादपि १ ॥ ३५० ॥ भणति स्मेन्द्रदत्तोऽपि राजानं मुदिताननः । अवश्यंभाविनो मृत्योः किं भयेन १ भुवः पते ! ॥ ३५१ ॥ तातेनोद्वेजितः सूनुर्मातरं शरणं श्रयेत् । पितरं शरणीकुर्यान् मातुरुद्विग्नमानसः ।। ३५२ ॥ उभाभ्यां पीडितस्त्राणं प्राणार्थी पार्थिवं व्रजेत् । पराभूतश्च तेनापि स्थानं कुर्यान्महाजनम् ॥ ३५३ ॥ समानशीलयुक्तेषु सर्वेष्वपि नृपादिषु । मादृशानामनाथानां कस्तदा शरणं भवेत् १ ॥ ३५४ ॥ यतः - माता यदि विषं दद्यात्पिता विक्रयते सुतम् । राजा हरति सर्वस्वं का तत्र परिवेदना १ ॥ १ ॥ अत एव भ्रुवो देव ! धीरत्वेन ममाधुना । अस्तु सर्वोपकाराय मरणं शरणं श्रियः ॥ ३५५ || किं नावधारितं नेतः ! श्रीजीमृतमहीपतेः । त्रिलोकचूडारत्नस्य चरितं सकलाद्भुतम् ॥ ३५६ ॥ दारिद्र्यमुद्रामुन्मुद्रय कल्पद्रुमप्रसत्तितः । निःशेषभूतलस्यापि निदानोज्झितदानतः || ३५७ ॥ शङ्खचूडद्विजिह्वस्य रचार्थ विनतात्मजात् । कृपया कल्पयामास यः स्वप्राणान् प्रियानपि ॥ मया तु निखिलस्यापि लोकस्य समहीभृतः । उपकारकृते स्वामिन् ! जीवितं दीयतेऽधुना ॥ ३५६ ॥ महानन्दमयं तेन वर्तते हृदयं मम । पुण्यैरेवेदृशं योगं पुमानासादयेत्कलौ ॥ ३६० ॥ ३५८ ॥ ************************* द्वितीय प्रस्तावः ॥४७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy