SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ४६ ॥ ****** ************ इन्द्रदत्तं सुतं दत्वा कनीयांसं गृहेश्वरि ! । अयमादीयते द्रव्यसंयुतः स्वर्णपूरुषः ॥ ३३५ ।। आयोवः पुत्राः सांप्रतं सन्ति वेश्यमनि । दयिते ! सति कल्याणे भविष्यन्त्यपरे पुनः ॥ ३३६ ॥ नास्ति गेहे पुनः किञ्चिद्धनं सर्वार्थसाधकम् । तद्विहीना न शोभन्ते गृहिणः ससुता अपि ॥ ३३७ ॥ हे प्रिये ! धनमाहात्म्यं पश्य त्वं विश्वतोऽद्भुतम् । निन्द्योऽपि यत्प्रभावेण वन्द्यो भवति तत्क्षणात् ॥ ३३८ ॥ प्रतिपन्नं तयाऽप्येवं मात्राऽपि धनलोभतः । अहो ! संसारनैरस्यं स्वार्थः सर्वेषु यत्प्रियः ॥ ३३६ ॥ धृत्वाऽथ वरदेवेन पटहं कटरे कथि । ममेदं दीयतां सर्वं यथा वो दीयतेऽङ्गजः ॥ ३४० ॥ ततः पौरजनाः प्रोचुस्त्वया चेद्गलमोटनम् । क्रियते नृपतेरग्रे तदा सर्वमिदं तव ॥ ३४१ ॥ लोभग्रस्तेन तेनाऽपि तथेति प्रत्यपद्यत । अनुज्ञातं जनन्याऽपि धिग् संसारकुचेष्टितम् ॥ ३४२ ॥ ज्ञात्वा स्वरूपं तत्पित्रोरिन्द्रदत्तो व्यचिन्तयत् । अहो ! असारसंसारनैरस्यं किं निरूप्यते १ । ३४३ ॥ इन्द्रजालोपमेष्वत्र पितृमातृसुतादिषु । मुग्धा मुधैव कुर्वन्ति स्नेहं गेहं महापदाम् ॥ ३४४ ॥ सर्वेषां संसृतौ प्रायः स्त्रार्थ एव हि वल्लभः । निजार्थानामभावे स्युः स्वजनाः शत्रुसंनिभाः || ३४५ ॥ ईदृगेव स्वभावोऽयं क्षुधार्तस्याङ्गिनोऽथ वा । अनार्येष्वपि कार्येषु यन्मनो वल्गति द्रुतम् || ३४६ ॥ इति चिन्ताञ्चितस्वान्तं वरदेवो द्विजोऽङ्गजम् । दत्वा गृहीतवान् सर्वं तद्धनं धनलोभतः ॥ ३४७ ॥ यतः— हमूलानि दुःखानि रसमूलाश्च व्याधयः । लोभमूलानि पापानि त्रीणि त्यक्त्वा सुखी भव ॥१॥ XXXXX द्वितीय प्रस्तावः | ॥ ४६ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy